Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 404
________________ प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग - श्रीअभयसिंहनृपकथा इतस्ततो भ्रमंस्तत्र, सार्थाधीशो ददर्श तम् । तरुच्छायापरावृत्त्या, भाग्यवन्तममंस्त च ॥ ३९॥ ततो गृहीत्वा पाणिभ्यां चिन्तामणिमिवार्भकम् । सोऽपुत्रायाः स्वभार्याया, राजाख्यायाः समार्पिपत् ॥ ४० ॥ मत्पत्न्या गूढगर्भायाः, संप्रत्यजनि दारकः 1 इति स्वजनवर्गेऽसौ कथयन्नुत्सवं व्यधात् ॥ ४१ ॥ मयासावभयो दृष्टः सिंहवन्निर्जनवने । , > इतीव सार्थवाहोऽस्याभयसिंहाभिधां व्यधात् ॥ ४२ ॥ क्रमेण वर्द्धमानोऽसौ वपुषा कलयापि च 1 विलासिनीजनक्रीडावनं यौवनमासदत् ॥ ४३ ॥ सोऽन्यदा स्वर्णपल्यङ्कप्रसुप्तो रजनीभरे । प्रेमतो भाषितो मातृव्यन्तर्या मधुरस्वरम् ॥ ४४ ॥ वत्स ! स्वच्छमते ! पूर्वमस्यां पुर्यां विशांपतेः | वीरसेनस्य भार्याहं वप्रा तस्याः सुतो भवान् ॥ ४५॥ मानभङ्गेन भूपेन, स पिता ते रणे हतः । अहं नष्टा सती मृत्वा व्यन्तरीभावमासदम् ॥ ४६ ॥ तद्वत्स ! शत्रुपुत्रत्वात्तवैष सहजो रिपुः । अतोऽदृश्यक Jain Education International विद्यामादत्स्व स्वात्मरक्षिकाम् ॥ ४७ ॥ ततः स जननीं नत्वा, तां विद्यामपठत्क्षणात् । सापि शम्पालतेवाशु, कृतकृत्या तिरोदधे ॥ ४८ ॥ अथ श्रीमानभङ्गाख्यः कुर्वाणो मांसभक्षणम् । मनोज्ञमप्यन्यदन्नं, पलालमिव मन्यते ॥ ४९॥ कदाचित्सूपकारस्य प्रमादादोतुना द्रुतम् । सुपक्वमामिषं जग्धं, पापिनां हीदृशी स्थिति: For Personal & Private Use Only ॥ ५० ॥ ३७७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438