________________
३७४
श्रीदानोपदेशमाला (गा. ९५) यथा गौरी गिरीशस्य, यथा मघवतः शची । तथा तस्य भुवो भर्तुर्वप्रानामाभवत् प्रिया ॥ ३ ॥ मघवतः-इन्द्रस्य, तकारान्तः शब्दोऽयम् । सा पट्टमहिषी राज्ञा, सदा भोगानभङ्गान् । भुञ्जाना सुषुवे सूनुं सिंहस्वप्नेन सूचितम् ॥ ४॥ धरित्रीवृत्रहा पुत्रस्यातुच्छं जनुरुत्सवम् । महाविभूत्या कृतवान् मेरौ शक्र इवार्हतः ॥ ५॥ इतश्च मासे संवृत्ते वीरसेननृपोपरि । मानभङ्गनृपोऽचालीत्प्रबलेन बलेन युक् ॥ ६॥ स्फुरद्धरिखुरक्षुण्णक्षमोद्भूतरजोभरैः । दिवापि सैन्यलोकानां, निशां संदर्शयन्निव ॥ ७॥ मतङ्गजकपोलोद्यदानाम्बुनिकुरम्बकैः । इलातलमकालेऽपि, कुर्वन्निव जलाविलम् ॥ ८॥ प्रचलच्चक्रिचीत्कारध्वनिबधिरितश्रुतीन् । सीमालपृथिवीपालान् , विदधान इवानिशम् ॥ ९॥ तत्पुरः प्रचलत्पत्तिकृपाणप्रतिबिम्बितः । एकोऽप्यनेकधा मार्गे गच्छंस्तत्पुरमाप सः ॥१०॥ कलापकम् ।। वीरसेनोऽपि भूपालश्चतुरङ्गचमूवृतः । नगरान्निरगादाशु केशरीव गुहान्तरात् ॥ ११ ॥ ततः प्रात:क्षणे वृत्ते, दलयोरुभयोरपि । आयोधनं प्रववृते, खड्गाखड्गि शराशरि ॥ १२ ॥ वीरेण वीरसेनेन, सेनानीर्मानभूपतेः । पातितो धरणीपीठे, वायुनेव महीरुहः ॥ १३ ॥ विसंस्थुलं बलं वीक्ष्य मानभङ्गनृपो निजम् । कोपाटोपेन दष्टौष्ठो, वीरसेनमधावत ॥ १४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org