SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग श्रीअभयसिंहनृपकथा ३७३ तपः कुरुताम्, श्रुतं-द्वादशाङ्गीरूपम्, पठत्वभ्यसतु, जपमिष्टदेवतास्मरणादिकम् , जपतु-स्मरतु, चरणं-सप्तदशभेदयुक्तं व्रतम्, आचरतुविदधातु, चेव शब्दः सर्वत्र ज्ञेयः, एवंविधकष्टक्रियां विदधानस्यापि पुंसो यदि जीवेष्वेकेन्द्रियादिपञ्चेन्द्रियपर्यन्तेषु न करुणा-न कृपा, तत्सकलमपि तस्य अफलं तुषवन्निःसारम्, खुशब्दोऽवधारणे इति गाथार्थः ॥ प्राणिवध-प्राणिपालनफलमाविर्भावयन्नाहपाणिवहपाणिपालणपराण चरियाणि असुहसुहयाणि । सिरिमाणभंग-सिरिअभयसिंहरांयाण णिसुणेह ॥१५॥ व्याख्या-प्राणा दशप्रकाराः उक्तं चपञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोगीकरणं च हिंसा ॥ १॥ (इन्द्रवज्रा) इत्यादि प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां यो वधो-जीवितव्यात् प्रच्यावनम्, तेषामेव च यत्पालनं मनोवाक्कायैः सम्यग्रक्षणं तत्र रतयोः -सदा सावधानमानसयोः, श्रीमानभङ्ग-श्रीअभयसिंहराजयोश्चरितानिकर्तव्यविशेषान्, असुखसुखदानीति, असुखं-नरकावाप्तिरूपम्, सुखंचैहिकामुष्मिकलक्षणम् , तद्ददत इति तानि नितरां शृणुत-आकर्णयत अर्थात् भो भव्या इति गाथार्थः ॥ भावार्थस्त्वयं प्रतन्यते । तथाहिअस्ति श्वेतविका नाम नगरी यत्र सुस्थिताः । वसन्ति कमलावासा नागराः सागरा इव ॥ १॥ तत्रासीत्प्रस्फुरत्सेनो वीरसेनो नरेश्वरः । यत्कृपाणापणेऽरीणां श्रियः क्रयमुपाययुः ॥ २॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy