________________
३७५
प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग-श्रीअभयसिंहनृपकथा तयोः परस्परं घोरं रणं दृष्ट्वा सुराङ्गनाः । मानवत्योऽपि भीभ्रान्ताः, प्रियालिङ्गनमादधुः ॥ १५॥ विधिनियोगतो वीरसेने राज्ञि विनाशिते । मानभङ्गनृपस्तस्य, साम्राज्यं स्वात्मसाद् व्यधात् ॥ १६ ॥ राजभङ्गे राजपत्नी सपत्नभयविह्वला । गुणैरबालं बालं तं, वप्रादायापलायत ॥ १७॥ सा राजकान्ता कान्तारे, बम्भ्रमती ससंभ्रमम् । केनापि पत्तिनादर्शि, व्याधेनेव कुरङ्गिका ॥ १८॥ व्यचिन्ति चाहो मे पुण्यप्रकर्षो यदियं वशा । अवाप रूपलावण्यात्तर्जितामरसुन्दरी ॥ १९॥ तन्मोचयामि भामिन्याः सकाशादेनमर्भकम् । येन मां स्वीकरोत्येषा, ध्यात्वेत्याह स तां प्रति ॥ २०॥ भद्रे! भद्राकृते! बालं, मुञ्च मां च पतीकुरु । इति तेनोदिता साह, कथं पुत्रं त्यजाम्यहम् ॥ २१ ॥ सोऽप्यूचे मयि रम्भोरु! स्वाधीनेऽन्येऽपि ते सुताः । भविष्यन्त्येवमुक्तापि, सा यावन्न तमत्यजत् ॥ २२ ॥ तावच्छठो हठाद् बालं, त्याजयित्वा वनान्तरे । तां च राज्ञी पुरःकृत्वा, पूर्णकाम इवाचलत् ॥ २३ ॥ ऊचे च भद्रे! मा रोदीः, खेदं त्यज भजस्व माम् । अरण्याम्भोजवन्मुग्धे! यौवनं मा कृथा वृथा ॥ २४ ॥ इदं तद्वचनं वज्रप्रपातमिव दुस्सहम् । श्रुत्वा साश्रूणि मुञ्चन्ती, चेतसीति व्यचिन्तयत् ॥ २५ ॥ हा विधातर्मया किं तेऽपराद्धं पूर्वजन्मनि । यद् दुःखोपरि दु:खानां घटनां कुरुषेऽकृप! ॥ २६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org