________________
३७६
एकं यस्याभवं प्राणप्रिया प्राणाधिकप्रिया । तस्य श्रीवीरसेनस्य, मरणं जीवितेशितुः ॥ २७॥ द्वितीयं तु रथाश्वेभपत्तिराजिविराजितात् । कोशग्रामपुर श्रीभिः, प्राज्याद्राज्यात्परिच्युतिः ॥ २८॥ अन्यच्च भक्तरक्तस्य, कलाकौशलशालिनः । परिच्छदस्य स्वजनवर्गस्य च वियोजनम् ॥ २९ ॥ अपरं तु सदाशून्येऽरण्ये श्वापदसंकुले । एकाकिन्या पिपासाक्षुत्क्लान्ताया भ्रमणं मम ॥ ३०॥ इतोऽपि मे किमधिकं व्यसनं भविता खलु । यदरण्यान्तरे तादृक्, पुत्ररत्नस्य संस्थितिः ॥ ३१॥ एवंविधाननर्थांस्त्वं, कुर्वन् धातर्न तृप्तवान् । यदिदानीमपि हहा, शीलं मे हर्तुमीहसे ॥ ३२॥ स्वान्त ! त्वमपि रे ! दुष्ट ! वज्रेण घटितासि किम् । ईदृशं वैशसं पश्यद्यदाशु न विदीर्यसे ॥ ३३॥ इत्थं चिन्ताजुषोऽमुष्या हृत्संघट्टनमाश्वभूत् । येन सा मुमुचे प्राणैरहो विधिविजृम्भितम् ॥ ३४॥ शीलपालनमाहात्म्यात्, व्यन्तरीत्वमवाप सा 1 ज्ञानेनावधिना ज्ञातवती, स्वं पूर्वजन्म च ॥ ३५॥ ददर्श च वनस्थल्यां, जम्बूवृक्षतले स्थितम् । सुतं वाताहतं भक्षयन्तं जम्बूफलं कलम् ॥ ३६ ॥ ततः स्नेहवशाद्देवी, कृत्वा गोरूपमर्भकम् । सा पयः पाययामास, पालयामास चानिशम् ॥ ३७॥ कियत्यपि गते काले, तत्र श्वेतविकापुरः 1 वास्तव्यप्रियमित्राख्यसार्थवाहः समाययौ ॥ ३८ ॥
श्रीदानोपदेशमाला (गा. ९५ )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org