Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 399
________________ श्रीदानोपदेशमाला (गा. ९४) समस्तहस्तिजातिषु ऐरावणः - शक्रगजः, उडूषु - अश्विनीप्रमुखनक्षत्रेषु शशी - चन्द्र:, लोकेषु च प्रजासु राजा - नरेन्द्रः, सर्वोत्कृष्टस्तदधिपतित्वात्, तथा दानेषु सत्पात्रादिषु अभयदानमर्थात् सर्वोत्तमं प्रवरम्। उक्तं च- देवेसु वीयरागो चारित्ती उत्तमो सुपत्तेसु । दाणाणमभयदाणं वयाण बंभवयं पवरं ॥१॥ इति गाथार्थः ॥ अभयदानविमुखस्य किं स्यादित्याह इक्कंपि हु जो जीवं णिहणवि पाणी समज्जए पावं । तो सो बहुदाणेण वि ण छुट्टए जं सुए भणियं ॥ ९२ ॥ व्याख्या-आस्तां तावद्बहून् एकमपि यः प्राणी जीवं निहत्यसर्वथा व्यापाद्य, पापं कल्मषं समुपार्जयेत, 'तो' तस्मात्पापात्स पुमान् बहुदानेनापि-गणनातीतधनकनकप्रभृतिदानेनापि न च्छुटति- न पारगामी स्यात्। यत्-यस्माद्धेतोः, श्रुते - सिद्धान्ते, भणितमुक्तं, खुशब्दो निश्चये इति गाथार्थः ॥ तदेवाह - ३७२ मेरुगिरिकणयदाणं धणाणं देइ कोडिरासीओ । इक्कं वहेइ जीवं, ण छुट्टए तेण दाणेण ॥ ९३॥ व्याख्या-आस्तां धनकनकमणिमाणिक्यप्रभृतिवस्तुविस्तारा मेरुगिरेरपि-लक्षयोजनमानस्यापि यत्कनकं - सुवर्णं तस्य दानं तथा धान्यानां - शाल्यादीनां कोटिराशीन् दत्ते ददाति । एवं कृते सति एकं जीवं वधेद्-व्यापादयेत् तथापि तेन दानेन प्राणी न छुटतीति गाथार्थः ॥ एतद्विना कृतानां सकलधर्मकृत्यानामफलत्वमाह ॥ - तवउ तवं पढउ सुयं, जवउ जवं चेव चरणमायरउ । जइ जीवेसु न करुणा सयले वि हु अहलयं तस्स ॥ ९४ ॥ व्याख्या-तपो-बहिरन्तरङ्गभेदेन द्वादशविधं तपश्चरणं तप्यताम्, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438