Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
श्रीअभयदानफलवर्णनम्
३७१ व्याख्या-पृथ्वीकायो-मृदादि, जलं-नीरं हिमादि, अग्निर्वह्निः तडिदादि, मारुतो-(वायुः) झंझोत्कलिकादिः, वनस्पतिः-प्रत्येकसाधारणरूपः, त्रसा:-द्वित्रिचतुष्पञ्चेन्द्रियाः, कृमि-पिपीलिका-भ्रमरमनुष्यादयः, प्रमुखशब्द एतेषां भावानां भेदानुभेदवाची, अत इत्यादयो ये जीवसमवायाः-प्राणिगणास्तान्, भो भव्या आत्मानमिव-स्वजीवितव्यमिव, रक्षत-पालयध्वम्, यदि शिवश्रीसंगं-मोक्षलक्ष्मीसंगममिच्छत-अभिलषतेति गाथार्थः ॥ पुनस्तस्यैव ऐहिकामुष्मिकं फलं गाथायुगलेनाहजं दीहतरं आउं कंदप्पमडप्पखंडणं रूवं । भुवणजणणयणमाणसविम्हयसयकारिया रिद्धी ॥ ८९॥ घणसारसारसारयससहरकरणियरसुन्दरं च जसं । संपज्जइ पाणीणं तं जाणह अभयदाणफलं ॥ ९०॥
व्याख्या-यद्दीर्घतरमायुः-समयानुसारिपरमजीवितम् , यच्च कन्दर्पदर्पखण्डनम्, रूपं-शरीरसौन्दर्यम्, यच्च भुवनजननयनमानसविस्मयशतकारिका ऋद्धिः-शक्रचक्रवर्त्तिसाम्राज्यरूपा । यच्च घनसारसारशारदशशधरकरनिकरसुन्दरं च यशः-कीर्त्तिविशेषः प्राणिनां संपद्यते, तदभयदानफलं जानीत-वित्त । उक्तं-दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत्कामदैव सा ॥ १॥ इति गाथाद्वयार्थः ।। पुनरपि तस्यैव दानेषु तथात्वं प्रकटयन्नाहदेवेसु सुरवरिन्दो करीसु एरावणो उडूसु ससी । जह लोएसु य राया तह दाणेसुं अभयदाणं ॥ ९१॥
व्याख्या-यथा देवेषु-चतुर्विधनिकायरूपेषु सुरवरेन्द्रः, करिषु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438