SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीअभयदानफलवर्णनम् ३७१ व्याख्या-पृथ्वीकायो-मृदादि, जलं-नीरं हिमादि, अग्निर्वह्निः तडिदादि, मारुतो-(वायुः) झंझोत्कलिकादिः, वनस्पतिः-प्रत्येकसाधारणरूपः, त्रसा:-द्वित्रिचतुष्पञ्चेन्द्रियाः, कृमि-पिपीलिका-भ्रमरमनुष्यादयः, प्रमुखशब्द एतेषां भावानां भेदानुभेदवाची, अत इत्यादयो ये जीवसमवायाः-प्राणिगणास्तान्, भो भव्या आत्मानमिव-स्वजीवितव्यमिव, रक्षत-पालयध्वम्, यदि शिवश्रीसंगं-मोक्षलक्ष्मीसंगममिच्छत-अभिलषतेति गाथार्थः ॥ पुनस्तस्यैव ऐहिकामुष्मिकं फलं गाथायुगलेनाहजं दीहतरं आउं कंदप्पमडप्पखंडणं रूवं । भुवणजणणयणमाणसविम्हयसयकारिया रिद्धी ॥ ८९॥ घणसारसारसारयससहरकरणियरसुन्दरं च जसं । संपज्जइ पाणीणं तं जाणह अभयदाणफलं ॥ ९०॥ व्याख्या-यद्दीर्घतरमायुः-समयानुसारिपरमजीवितम् , यच्च कन्दर्पदर्पखण्डनम्, रूपं-शरीरसौन्दर्यम्, यच्च भुवनजननयनमानसविस्मयशतकारिका ऋद्धिः-शक्रचक्रवर्त्तिसाम्राज्यरूपा । यच्च घनसारसारशारदशशधरकरनिकरसुन्दरं च यशः-कीर्त्तिविशेषः प्राणिनां संपद्यते, तदभयदानफलं जानीत-वित्त । उक्तं-दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत्कामदैव सा ॥ १॥ इति गाथाद्वयार्थः ।। पुनरपि तस्यैव दानेषु तथात्वं प्रकटयन्नाहदेवेसु सुरवरिन्दो करीसु एरावणो उडूसु ससी । जह लोएसु य राया तह दाणेसुं अभयदाणं ॥ ९१॥ व्याख्या-यथा देवेषु-चतुर्विधनिकायरूपेषु सुरवरेन्द्रः, करिषु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy