________________
३७०
श्रीदानोपदेशमाला (गा. ८८) ज्ञात्वा बहुगुणं तस्य वचने स्वीकृते सति । स्वामिना स ततो मेघरथः प्रसादमासदत् ॥ ६८ ॥ स्वं राज्यं नन्दिषेणाय ददौ मेघरथो नृपः । सूनवे मेघसेनाय युवराजपदं तथा ॥ ६९ ॥ कृतकृत्यस्ततस्त्यक्तसर्वसङ्गो विशांविभुः । समेत्य तातपादाब्जमूले चारित्रमग्रहीत् ॥ ७० ॥ असिधाराव्रतप्रायं, व्रतं राजर्षिशेखरः । प्रपाल्यानशनी मृत्वा सर्वार्थदिवमासदत् ॥ ७१ ॥ यथानुकम्प्येष्वकृतानुकम्पादानं मुदां मेघरथो नरेन्द्रः । तथैतदन्योऽपि जनो विदध्यान्निर्वाणवध्वाः परिरम्भलब्ध्यै ॥ ७२ ।।
(उपजातिः) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां
श्रीदानोपदेशमालावृत्तावनुकम्पादानविषये श्रीमेघरथनृपकथा समाप्ता ॥ अनुकम्पादानस्वरूपमुक्त्वा चतुर्थमभयदानमाहतत्तो भणिमो सिरिअभयदाणमइसयसयाणं तं । सयलाण वि दाणाणं चक्कित्तं जस्स जयपयडं ॥ ८७॥
___ व्याख्या-तत इति क्रमायातम् तत् श्रीअभयदानं-जन्तुजातरक्षणदक्षणम् , अतिशयशतानां-माहात्म्यविशेषाणाम्, सदनं-निवासभूमिम्, भणाम:-कथयामः, यस्याभयदानस्य सकलानामपि दानानां मध्ये चक्रित्वं जगत्प्रकटम्, अपरोऽपि यश्चक्रवर्ती भवति स सर्वत्र विख्यातः स्यात्तथेदमपि सर्वदर्शनसंमतत्वादिति गाथार्थः ।। तदभयदानं केषु केषु क्रियत इत्याहपुढविजलअगणिमारुयवणस्सइतसपमुहजीवसमवाए । अप्पाणंपि व रक्खह जइ इच्छह सिवसिरीसंगं ॥ ८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org