________________
अनुकम्पादानविषये श्रीमेघरथनृपकथा
३६९ यत:-सच्छंदं जंपिजइ कीरइ जं णियमणस्स पडिहाइ । अजसस्स न बीहिज्जइ, पहुत्तणं तेण रमणीयं ॥ ५७॥ ततोऽसहिष्णुः स्वर्लोकात्त्वत्परीक्षाकृते कृतिन्! । समागां संक्रमय्य स्वं, पक्षिद्वयतनाविह ॥ ५८॥ स्वर्णस्येव तव माप! परीक्षां कुर्वता मया । सैन्द्रीवाक् सत्यतां नीता त्वत्साहसविलोकनात् ॥ ५९॥ तत्क्षमस्वापराधं मे सन्तः क्षुद्रहृदो न हि । इत्युक्त्वा स सुरः क्लृप्तपुष्पवृष्टिरगाद्दिवम् ॥ ६० ॥ ततोऽङ्गिश्लाघ्यमानानुकम्पादानगुणोदयः ।। श्रीमेघरथपृथ्वीन्द्रः प्रसिद्धोऽभूदिलातले ॥ ६१॥ अन्यदा तीर्थकृत्तातः श्रीमान् घनरथो भुवम् । विहरन् पुण्डरीकिण्या उद्याने समवासरत् ॥ ६२ ॥ वनपालकविज्ञप्तः सान्तःपुरपरिच्छदः । राजा राजगजारूढः श्रीतातं वन्दितुं ययौ ॥ ६३ ॥ तं त्रि:प्रदक्षिणीकृत्य निविष्टे विष्टपेश्वरे । संवेगजननीं धर्मदेशनां भगवान् व्यधात् ॥ ६४॥ आयुर्वायुवदस्थिरं गिरिनदीपूरोपमानं धनम्, तारुण्यं शरदभ्रविभ्रमसखं स्वप्नोपमाः संगमाः । अङ्गं वार्धितरङ्गभङ्गरतरं चेत्याशु विज्ञाय भोः!, भव्याः! शाश्वतमोक्षसौख्यवसतिं दीक्षां श्रयध्वं मुदा ॥ ६५॥
(शार्दूलविक्रीडितम्) इत्याकर्ण्य प्रभोधर्मदेशनामवनीश्वरः । संवेगवेगतोऽर्हन्तं प्रणिपत्य व्यजिज्ञपत् ॥ ६६॥ प्रभो! प्रसादमाधायात्रैव तावद्विलम्ब्यताम् । यावत्स्वपुत्रसाम्राज्यं कृत्वा दीक्षार्थमागमम् ॥ ६७"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org