________________
३६८
श्रीदानोपदेशमाला (गा. ८६) उक्तं चयश:शरीरं भुवि ये निवेश्य स्वर्गं गताः पुण्यशरीरभाजः । तेषामसारस्य शरीरकस्य हासेऽपि का नामपरिक्षितिः स्यात् ॥ ४६ ॥
(उपजाति:) तदवश्यं मया रक्ष्यः पक्ष्ययं शरणागतः । स्वीकृतं न हि मुञ्चन्ति, विधुरेऽपि महाशयाः ॥ ४७॥ यदुक्तम्दिग्गजकूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेऽपि ॥ ४८॥ (आर्या) एवं मेरुरिवाचाल्यसत्त्वो यावन्नृपः स्थितः । तावत्पुरः स्वप्रतापमिवापश्यन्महन्महः ॥ ४९ ॥ तदन्तरिकेयूरकोटीरादिविभूषणः । आविरासीत्सुरः कोऽपि, तत्पुरोऽग्निरिवारणेः ॥ ५० ॥ अहो सत्त्वमहो धैर्यमहो तेऽन्योपकारता । इति प्रशंसां कुर्वाणः सोऽश्रयद् बन्दिभूमिकाम् ॥ ५१ ॥ उवाच च त्वमेवैको वो मध्ये महीभुजाम् । सत्त्वतश्चाल्यसे यन्न देवदानवमानवैः ॥ ५२॥ श्रीमेघरथभूमीन्द्र! सभायामेकदा स्थितः । शमीशानदिवो भर्ता वर्णयामासिवानिति ॥ ५३॥ न सुरैर्नासुरैश्चैवानुकम्पाभिधदानतः । यच्चाल्यते युगान्तेऽपि, राजा घनरथात्मजः ॥ ५४॥ इति तद्वचनं श्रुत्वा, जातज्वर इवाधिकम् ।। अचिन्तयमहं चित्ते कोऽसंभाव्यं हि मन्यते ॥ ५५ ॥ किं सत्त्वं मानवेषु स्यात्, कृमिकीटसनाभिषु । स्वैरालापः परं स्वामी, वक्ति तद्रोचते हि यत् ॥ ५६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org