________________
३६७
अनुकम्पादानविषये श्रीमेघरथनृपकथा यद्येनं न ददाम्यस्मै तदायं म्रियते खगः । किं करोमि द्विधाचेता, इतो व्याघ्र इतस्तटी ॥ ३४॥ आ ज्ञातोऽस्ति मयोपायो निजाङ्गपलदानतः ।। श्येनस्य तृप्तिः स्याज्जीवरक्षा पारापतस्य च ॥ ३५ ।। विमृश्येति नृपः प्राह श्येन! स्वपिशितं तव । तुलया तोलयित्वाहं, पारापतसमं ददे ॥ ३६ ।। श्येनेनेति प्रतिज्ञाते तुलायामचलाधिपः । न्यस्थात् कपोतमेकत्रान्यत्र छित्त्वा निजामिषम् ॥ ३७॥ छेदं छेदं नृपः स्वाङ्गात्पलं न्यस्थाद् यथा यथा । वज्रादपि महाभारः, कपोतोऽभूत्तथा तथा ॥ ३८॥ एवं कुर्वन्नपि क्षमापो, यावत् खगसमानताम् । नानैषीत्स्वपलं तावत्तुलायामधिरूढवान् ॥ ३९ ॥ तुलाधिरूढं सत्त्वाढ्यं नृपं दृष्ट्वाखिलो जनः । शूलारूढनिजप्राण, इवाकृत हहारवम् ॥ ४० ॥ आचक्षुश्च विशामीशं सामन्तामात्यपुंगवाः । हहा किमेतदारब्धं, साहसं भूपते! त्वया ॥ ४१ ॥ पतत्रिमात्रं संत्रातुं, किं जहासि निजानसून् । यतो न मतिमान् काचकृते चिन्तामणिं त्यजेत् ॥ ४२ ॥ विश्वोपकारि किं स्वाङ्गं त्यजेरेकवयःकृते । क: सुधीरेकपत्रार्थे छिन्द्यादखिलमपिम् ॥ ४३ ॥ स्वामिन् ! श्येनमिषात् कोऽपि मायी देवोऽथवासुरः । ईदृक्षः पक्षिणां भारो, यन्न संगतिमङ्गति ॥ ४४ ॥ इत्युक्तोऽपि महीपालः कृपालूनां मतल्लिका ।। तानाह गत्वराङ्गार्थे कः कीर्तिं शाश्वतीं त्यजेत् ॥ ४५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org