________________
३६६
श्रीदानोपदेशमाला (गा. ८६) पञ्चेन्द्रियाणां जन्तूनां वधो मांसादनं तथा । प्रथमं नरकपातश्रीकरग्रहणमङ्गलम् ॥ २२ ॥ गत्वरस्य शरीरस्य, पोषायामिषभक्षणम् । क्रियते श्येन! यैस्तैस्तु, पश्यद्भिः कूपमज्जनम् ॥ २३ ॥ बुभुक्षानाशनोपाया भवन्ति ह्यशनादयः । तत्किं श्वभ्रे मुधा मांसादनैः स्वात्मा निपात्यते ॥ २४॥ प्राणिप्राणापहारेण नरकातिथितामिताः । ताड्यन्ते श्येन! सोल्लुण्ठैः, परमाधार्मिकामरैः ॥ २५ ॥ तदद्यापि निवर्तस्व, वधाज्जीवदयां श्रय । यथामुत्रापि तैरश्ची न जायते गतिस्तव ॥ २६ ॥ इत्युदित्वा स्थिते राज्ञि, श्येनः स्माह नृभाषया । भूप! युक्तममुं पासि, पक्षिणं शरणागतम् ॥ २७॥ परं क्षुत्क्षामकुक्षिः सन् किं करोमि क्षमापते! ।। यतो बुभुक्षिता न स्युः पुण्यापुण्यविवेचकाः ॥ २८॥ यथा रक्षस्यमुं भक्ष्यं पक्षिणं मे क्षमापते! । तथा क्षुद्राक्षसीतो मां रक्ष सन्तो यतः समाः ॥ २९ ।। स्थापयित्वैक उत्सङ्गे, रक्ष्यतेऽन्यस्तु हन्यते । श्रीमेघरथभूपाल! केयं ते धर्मचातुरी ॥ ३०॥ न मांसभक्षिणो जीवा मोदन्ते मोदकैरपि ।। करभः कण्टकास्वादी, किं मुखं क्षिपतीक्षुषु ॥ ३१॥ यावत् स्वचञ्चुघातेन, हत्वा नो जीवमम्यहम् । तावद् भवेन्न मे तृप्तिरतोऽमुं नृपतेऽर्पय ॥ ३२ ॥ इतीरिते सति श्येने, राजा चेतस्यचिन्तयत् । चेद्ददेऽमुममुष्मै मे, तदा याति शरण्यता ॥ ३३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org