________________
३६५
अनुकम्पादानविषये श्रीमेघरथनृपकथा सोऽप्याह पुण्डरिकिण्यां पुरि मेघरथो नृपः । दृष्टः सत्त्ववतां 'धुर्यः, प्रयुक्तावधिना मया ॥ १० ॥ तदीयशरणायाता, जन्तवो न कदापि हि । पराभवितुमीश्यन्ते, सुरेन्द्रैः ससुरैरपि ॥ ११॥ अतो मम चमत्कारः स्फुरति स्म सुरा हृदि । स किं पुमान् योग्यगुणान्, वीक्ष्य हर्षं तनोति न ॥ १२ ॥ इत्याकर्ण्य सुरः कोऽपि तद्वचो वितथं विदन् । । श्रीमेघरथसत्त्वस्य परीक्षार्थं दिवोऽचलत् ॥ १३ ॥ सत्वरायान्नभोमार्गे श्येनपारापतौ मिथः । युध्यमानौ रुषा वीक्ष्य तयोर्वपुरशिश्रियत् ॥ १४ ॥ अथ मेघरथक्ष्मापे सामन्तामात्यमण्डितम् । सभामण्डपमासीने, कान्दिशीको मरुत्पथात् ॥ १५॥ राजन्! मां रक्ष रक्षेति जल्पन् मानुषभाषया । पारापतपतत्री स तदुत्संगेऽपतद्रयात् ॥ १६॥ युग्मम् ॥ पक्षिणं भक्षभूतं मे, मुञ्च मुञ्चेति भूपते! । वदन्ननुपदं तस्य, श्येनोऽप्योतुरिवाययौ ॥ १७ ॥ नृपोऽपि प्राह भोः श्येन! कथमेनं ददामि ते । न क्षत्राणामयं धर्मः शरणस्थो यदर्प्यते ॥ १८ ॥ किञ्च श्येन! तवाप्येष न योग्यः कुग्रहाग्रहः । यदन्यजीवघातेन स्वपिण्डपरिपोषणम् ॥ १९॥ पक्षेऽपि त्रोट्यमाने ते यथा स्यान्महती व्यथा । तथान्यस्यापि जायेत हन्यमानस्य का कथा ॥ २०॥ भक्षिते पक्षिणि श्येन! तृप्तिः स्यात्क्षणिका तव । अमुष्य तु वराकस्य हा सर्वं जन्म पूर्यते ॥ २१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org