________________
३६४
श्रीदानोपदेशमाला (गा. ८६)
व्याख्या-स-प्रसिद्धो, जगति-विश्वे, मेघरथो-मेघरथनामा नृप आस्तां तावदपरैर्नरसुरविसरैः किन्त्विन्द्रेणापि-ईशानेन्द्रेणापि वर्णनीयचरित्र:-श्लाघ्यमानावदातो, जयतु-सर्वोत्कर्षेण वर्त्तताम् , यस्यमेघरथनृपस्यानुकम्पादानेऽनुकम्पादानविषये दुन्दुभिरावो-ढक्कानिनादो रणरणायते-शब्दायत इति गाथार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम्जम्बूद्वीपाभिधे द्वीपे, प्राग्विदेहे श्रियां गृहे। विजये पुष्कलावत्यामस्ति पू: पुण्डरीकिणी ॥ १॥ यस्याम_लिहावासा वातोद्भूतैर्ध्वजापटैः । तर्जयन्ति विमानानां श्रियं श्रीगर्विता इव ॥ २॥ तस्यां घनरथाभिख्यचक्रवर्तितनूभवः । श्रीमत्प्रियमतीकुक्षिशुक्तिमुक्ताफलोपमः ॥ ३॥ विशुद्धतीर्थकृद्धर्मवल्लीपल्लवनाम्बुदः । शरणागतजन्तूनां वज्रपञ्जरसोदरः ॥ ४॥ विक्रमाक्रान्तदिक्चक्र: श्रीमेघरथपार्थिवः । जनानवति सन्नीत्या दिवीन्द्र इव नाकिनः ॥ ५॥ कुलकम् ॥ निःसीमरूपसंपन्ने प्रियमित्रामनोरमे । अभूतां दयिते तस्य रतिप्रीती इवातनोः ॥ ६॥ तयोर्भुञ्जानयो गान् पत्या सह बभूवतुः । तनयौ नन्दिषेणश्च मेघसेनश्च विश्रुतौ ॥ ७॥ अन्यदेशानकल्पेन्द्रो लोकपालादिनाकिभिः । सेव्यमानपदद्वन्द्वोऽलञ्चकार निजां सभाम् ॥ ८॥ विस्मयेन शिर:कम्पं कुर्वन्तं वीक्ष्य नाकिनः । पप्रच्छुस्त्रिदशाधीशं मौलिधूननकारणम् ॥ ९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org