________________
उचितदानविषये श्रीकर्णनरेश्वरकथा
३५९ कर्णः प्राह नृपेदानीं पाण्डवाः क्षीणसंपदः । सुजेयास्तदिमैः सार्धं, युद्धमेव विधीयते ॥ १९॥ दुर्योधनोऽपि तद्वाक्यं, तथैव प्रतिपद्य च ।। सोऽग्रेऽपि रणसजोऽभूत्तदुक्ते तु किमुच्यते ॥ २० ॥ अथ श्रीपाण्डुभूदुर्योधनभूधनयोमिथः । रणोऽतिदारुणो जज्ञे, रामरावणयोरिव ॥ २१ ॥ जाते सप्तदशेऽहन्यद्यार्जुनेनैव समं मया । ध्रुवं विधेया संग्रामसंकथा हृद्व्यथापहृत् ॥ २२ ॥ इति निश्चयमाधाय विहितस्नानमङ्गलः । आराधितपरब्रह्मा सर्वाङ्गीणविभूषणः ॥ २३ ॥ सन्नद्धबध्यकवचो विविधायुधबन्धुरः । सिन्धुरस्कन्धमारूढः श्वेतच्छत्रोपशोभितः ॥ २४ ॥ चामराभ्यां वीज्यमानो, भट्टथट्टकृतस्तुतिः । सर्वेभ्यो याचकेभ्यो रैरूप्यरत्नादिकं ददत् ॥ २५ ॥ जितकाशी भवान् भूयादिति वृद्धाङ्गनाशिषाम् । वचांस्याकर्णयन् कर्णकोटराभ्यां पदे पदे ॥ २६॥ सुयोधनादिभूपालपरीवारपरीवृतः ।। वाद्यमानेषु निस्वानादिवादित्रेषु सत्सु सः ॥ २७ ॥ श्रीकर्णदेवभूजानिर्मूगारिरिव निर्भयः । पुरीदरीतो निर्गत्य, रणभूम्यामुपेयिवान् ॥ २८॥ सप्तभिः कुलकम् ॥ यः कोऽप्येत्य कमप्यर्थं, प्राणी प्रार्थयतेऽधुना । तस्मै तत्तद् ददाति श्रीकर्ण इत्थमघोषयत् ॥ २९ ॥ तच्छ्रुत्वाभ्यर्णवर्त्तिभ्यो, ग्रामेभ्यो विभवार्थिनः । अहंपूर्विकया तत्रास्तोका लोकाः समागमन् ॥ ३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org