SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६० अस्मिन्नवसरे कश्चिद्विप्रो दारिद्र्यविद्रुतः । रोमशः प्रत्यहं भिक्षावृत्तिकृद् रुक्षविग्रहः ॥ ३१॥ देशाननेकशो भ्रामं भ्राममप्राप्तवैभवः । वेश्मन्यागाद्यतोऽभाग्यवतां लाभोदयः कुतः ॥ ३२ ॥ तमर्थशून्यमालोक्य, भार्या पिङ्गलकुन्तला । विरूपवदना लम्बस्तनी चिपिटनासिका ॥ ३३॥ स्थूलोदरा परद्रव्यसतृष्णा कृष्णविग्रहा । राक्षसीवातिघोराख्यत् सा रुषा परुषाक्षरम् ॥ ३४ ॥ रे! निर्भाग्याद्य कर्णेन याचका अदरिद्रिणः । रैरूप्यरत्नवस्त्रोक्षाश्वादिदानेन चक्रिरे ॥ ३५ ॥ तत्त्वं विलम्बमुत्सृज्य, तत्र व्रज यथा स ते । ददाति किमपीत्युक्तस्तयासौ निरगात्ततः ॥ ३६॥ * यत्रास्ते कर्णदेवपालस्तत्र समागतः I जीर्णशीर्णांशुको विप्रो दत्तस्वस्त्ययनोऽवदत् ॥ ३७॥ राजन्नाजन्मदारिद्र्योत्कटलुण्टाकलुण्टितम् । मां तथा कुरु येनाहं नाऽभवं पुनरीदृशः ॥ ३८ ॥ कर्णो वितीर्णसम्पूर्णधनोऽपि हि ममाधुना । मा दानखण्डना भूयान्मानम्लानिविधायिनी ॥ ३९ ॥ इति ध्यात्वा निजस्वान्ते, भूमिदेवमवोचत । दत्तं मयाखिलं किंतु, वस्तुत्रय्यस्ति संप्रति ॥ ४० ॥ एकार्कपाकरसवत्याह्वा विद्या द्वितीयकः । 11 88 11 पटः सकलरोगघ्नस्तृतीयः स्वर्णसंकलः एतद्वस्तुत्रयस्यान्तर्यत्ते ब्राह्मण ! रोचते तदेकं प्रार्थयस्वेति, राज्ञा पृष्टः स ऊचिवान् ॥ ४२ ॥ * इदं चरणं सर्वप्रतिषु सप्ताक्षरीयमेव दृश्यते । श्रीदानोपदेशमाला (गा. ८१ ) Jain Education International For Personal & Private Use Only युग्मम् ॥ युग्मम् ॥ युग्मम् ॥ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy