________________
३५८
भूपालः प्राह रे द्वारपाल ! तं दूतमानय 1 इति भूमिभुजादिष्टः स प्रावेशयदाशु तम् ॥ ७॥ संदेशहारके नत्वा निविष्टे विष्टपाधिपः । तं प्राह कुशलं श्रीमदुर्योधनधरेशितुः ॥ ८॥ सोऽप्यूचे नृपतेऽरातिकुलदावदवानले ।
॥ ९॥
॥ १२॥
त्वयि भ्रातरि जागर्त्ति, तस्यास्त्यकुशलं कुत: परं कुरुकुलाकाशभानुना येन हेतुना । प्रेषितो भवदभ्यर्णं तन्महीश ! निशम्यताम् ॥ १० ॥ देव ! संप्रति संपूर्णावधिभिः पाण्डुसूनुभिः । कृष्णाद् दुर्योधनक्ष्मापपुरस्तादिति भाणितम् ॥ ११॥ पूर्णीबभूव नोऽरण्यनिवासो द्वादशाब्दिकः 1 वर्षस्त्रयोदशोऽप्यन्यजनाविज्ञातलक्षणः अतो मुञ्च विलम्बं नो यच्छ राज्यं भवाथवा 1 संग्रामप्रगुणोऽत्रार्थे, तृतीयोऽध्वा न विद्यते ॥ १३ ॥ तच्छ्रुत्वा धार्तराष्ट्रोऽसावेषां राज्यं ददामि किम् । किं वा रणं करोमीति, विमर्शाविष्टमानसः ॥ १४ ॥ वेगेन युष्मदाह्वानकृते मां प्रैषिषत्तमाम् । भवद्भिरपि यद्युक्तं भवेत्तद्धि विधीयताम् ॥ १५ ॥ इत्थमाकर्ण्य कर्णाभ्यां, सकर्णः कर्णपार्थिवः तेनैव साकं सानीको, हस्तिनापुरमाययौ ॥ १६ ॥ दुर्योधनः परीवारवृतस्तत्संमुखं गतः 1 महाविभूत्या श्रीकर्णदेवं प्रासादमानयत् ॥ १७ ॥
1
ऊचे चास्माभिरेतेषां किं राज्यं दीयतेऽथवा । युद्धं विधीयतेऽत्रार्थे प्रमाणं हि भवद्वचः ॥ १८॥
Jain Education International
श्रीदानोपदेशमाला (गा. ८१ )
,
For Personal & Private Use Only
युग्मम् ॥
www.jainelibrary.org