________________
उचितदानविषये श्रीकर्णनरेश्वरकथा
३५७ व्यापारयति-निवेशयति । तज्ज्ञानधना-मतिश्रुतावधिमन:-पर्यायकेवलज्ञानविभवा मुनिपतयः-साधुपुंगवा उचितदानं-पात्रानुसारिप्रदानं कथयन्ति-ब्रुवते इति गाथात्रयार्थः ॥ उचितदानदातृफलप्रतिपादिकां गाथामाहसारयससहरसोयरजसभरघणसारवासियदियंतो । इह उचियदाणदाया सिरिकण्णणरेसरुव्व हवे ॥ ८१॥
व्याख्या-शारदः-शरत्कालसंबन्धी, यः शशधरः-सुधाकरस्तस्य सोदरः-सदृक्षो योऽसौ यशोभर:-कीर्तिपूरः स एव घनसार:-कर्पूरस्तेन वासिता:-परिगलिता दिगन्ता-आशाप्रान्ता येन स एवंविध इहलोके उचितदानदाता श्रीकर्णनरेश्वर इव-चम्पाधिप इव भवेज्जायतेति गाथार्थः ।। अमुष्य च दृष्टान्तः सविस्तरो महाभारताज्ज्ञेयः, परमत्र ग्रन्थगौरवभयादिग्मात्रमेव प्रदर्श्यते। तथाहि-अस्त्यपूर्वः श्रिया पूर्वदेशः देशेषु योऽर्हताम् । जन्मत्वेनात्मनि व्यक्तं व्यनक्ति परभागताम् ॥ १॥ तस्मिन्नगाभिधो देशो निवेशोऽखिलसंपदाम् ।। यस्मिन् पलाशाः श्रूयन्ते तरवो न हि देहिनः ॥ २॥ तत्र शत्रुकृताकम्पा चम्पा नाम महापुरी । यस्यां करप्रचारः स्त्रीस्तनेषु न जनेषु च॥ ३॥ तस्यामासीदसीमश्रीः कर्णो नाम नरेश्वरः । यत्कीर्त्तिनर्तकी विश्वमण्डपेऽद्यापि नृत्यति ॥ ४॥ एकदा पर्षदासीनं श्रीकर्णमवनीश्वरम् । दौवारिकः समभ्येत्य, प्रणिपत्य व्यजिज्ञपत् ॥ ५॥ देव! दुर्योधनक्षोणीशतो दूत इहागतः । युष्माकं दर्शनं वाञ्छत्यम्भोदमिव चातकः ॥ ६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org