SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ श्रीदानोपदेशमाला (गा. ७९) उत्पत्त्यनन्तरविनाशादिति वादिनः । एते चात्मादिनास्तित्वप्रतिपन्नलक्षणा अमुनोपायेन चतुरशीतिसंख्या द्रष्टव्याः, पुण्यापुण्यरहिततत्त्वसप्तकं स्वपरभेदाभ्यां गुणितं जाताश्चतुर्दश, ते च कालेश्वरात्मनियतिस्वभावयदृच्छाभेदैः षड्भिर्गुणिता जाताश्चतुरशीति भेदा अक्रियावादिनाम् । [७×२x६=८४] ३५६ अज्ञानवादिनां संख्यामाह - ज्ञाने सत्यभिनिवेशसंभवात्तस्मादज्ञानमेव मुमुक्षुणा मुक्तयेऽभ्युपगन्तव्यं न ज्ञानमिति । तद्भेदानाहजीवादिनवतत्त्वानि । सत्त्वाऽसत्त्वसदसत्त्वावाच्यत्वसदवाच्यत्वा-सदवाच्यत्वसदसदवाच्यत्वभेदसप्तकेन गुणितानि जातास्त्रिषष्टिभेदाः । - [९×६-६३] वैनयिकानां संख्यामाह - विनयेन चरन्तीति वैनयिकाः । एते चानवधृतलिङ्गाचारशास्त्राविनयप्रतिपत्तिलक्षणा वेदितव्याः । तद्भेदाः सुर- नृप-यति- ज्ञाति- स्थविराधम- मातृ-पितृरूपा अष्टौ भेदाः । तेन मनोवाक्काय-दानभेदैश्चतुर्भिर्गुणिताद्वात्रिंशद्भेदा भवन्ति । [८x४=३२] एवं त्रिषष्ठ्यधिकशतत्रयप्रमाणाः पाखण्डिनः स्याद्वादमुद्रानलङ्कृतत्वादेकैकनयमतावलम्बिनो मिथ्यादृश एवेत्यवगन्तव्याः । अतिहित्ति अतिथिषु-सामान्यप्राघूर्णकेषु, माहणित्ति माहनेषु - विप्रेषु, मागहित्ति मागधा-मङ्गलपाठकाः, गन्धर्वा-गायनाः, नटाः - शैलूषाः, भटाराजपुरुषाः, मागधाश्च गन्धर्वाश्च नटाश्च भटाश्चेति द्वन्द्वस्तेषु । सहियत्ति सख्योर्धर्मभगिन्यः, स्वासिन्यः - पितृष्वसृस्वसृभाग्नेय्यो नन्दनजन्मोत्सवप्रमुखकार्यं च पुत्रोत्पत्तिलेखशालाकरणपाणिग्रहणप्रभृत्युत्सवकृत्यं सख्यश्च स्वाग्ग्न्यिश्च नन्दनजन्मोत्सवप्रमुखकार्यं चैति द्वन्द्वस्तेषु । चः समुच्चये । कित्तिणिमित्तंति यद् एतेषु पूर्वोक्तेषु कीर्त्तिनिमित्तं-यशो-निमित्तं, स दाता-दायकपुरुषो यद् द्रव्यं धनकनकमणिमाणिक्य- वस्त्रादिकं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy