________________
३५५
उचितदानयोग्यपात्रवर्णनम् अतिहीसुं माहणेसुं, मागहगंधव्वनडभडेसुं च । सहियसुयासणिणंदणजंमूसवपमुहकज्जेसु ॥ ७९॥ कित्तिणिमित्तं दाया, जं दव्वं वावरेइ एएसु । णाणधणा मुणिवइणो तमुचियदाणं समाहिंसु ॥ ८०॥
व्याख्या-वैशेषिका-औलूक्यमतानुसारिणो, नैयायिका-अक्षपादमतावलम्बिनो जटाधराः, मीमांसका-भाट्टप्राभाकरभेदास्त्रिदण्डिनः, सांख्या:-कापिलदर्शिनः, भिक्षवः-सौगताः, प्रमुखशब्दोऽमीषां भेदप्रभेदसूचकः । वैशेषिकाश्च नैयायिकाश्च मीमांसकाश्च सांख्याश्च भिक्षुप्रमुखाश्च वैशेषिकनैयायिकमीमांसकसांख्यभिक्षुप्रमुखास्तेषु, तियसट्ठित्ति त्रिषष्ट्यधिकसहितानि यानि त्रीणि शतानि तत्संख्या ये क्रिया-अक्रियादिवादिनः पाखण्डिनस्तेषु जिनमतप्रतीतेषु ॥ यदुक्तंअसिइसयं किरियाणं अकिरियवाईण होइ चुलसीई ।। अण्णाणिय सत्तठ्ठी वेणइयाणं च बत्तीसं ॥१॥*
एतत्संख्योत्पत्तिमाह-अशीत्यधिकशतं क्रियावादिनाम्, तथा च न कर्तारमन्तरेण क्रिया पुण्यबन्धादिलक्षणा भवति, तत एवं परिज्ञायात्मसमवायिनीं वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसंख्या विज्ञेयाः। जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यपापमोक्षरूपान्नवपदार्थान् परिपाट्या विन्यस्य स्वपरभेदाभ्यां गुणयित्वा नित्यानित्याभ्यां च संगुण्य ततः कालेश्वरात्मनियतिस्वभावभेदैः पञ्चभिर्गुणिता जाता अशीत्यधिकशतं भेदाः । [९४२४२४५=१८०] अक्रियावादिनां संख्यामाह
__न कस्यचित्प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया संभवति* श्रीसूत्रकृताङ्गे उद्धृत-गाथा-पृ.१९६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org