SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३५४ 1 इत्यमरसेनवरसेननृपतिचरितं निशम्य भो भव्याः ! कुरुत शुभपात्रदानं येन भवेद्वः सदा सौख्यम् ॥ २०१ ॥ श्रीदानोपदेशमाला (गा. ७८ ) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्य श्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ सत्पात्रदानविषये श्रीअमरसेन - वरसेननरेन्द्रकथा समाप्ता ॥ सुपात्रदानफलमुक्त्वा सांप्रतं द्वितीयमुचितदानमाहअह समुचियदाणमिणं जसवल्लीकंदकंदलणकंदं । भुवणच्छेरयकरणं भणिज्जमाणं सुणिज्ज बुहा ॥ ७७ ॥ व्याख्या - अथानन्तरं हे बुधा !- विचक्षणा ! मया कथितमानं (कथ्यमानं ) समुचितदानं शृणुताकर्णयतेति क्रियासम्बन्धः । तद्विशिनष्टि जसत्ति यश एव - कीर्त्तिरेव वल्ली-लता यशोवल्ली, तस्या योऽसौ कन्दो-मूलं, तस्य यत्कन्दलनं - किशलयनं तत्र कन्द इव- मेघ इव तत्। नन्वपरैरपि कूपादिजलैर्वल्लयः पल्लवोल्लासिन्यः स्युः परं वारिदेन सिक्तास्ता अपरामेव मुखच्छायां वहन्ति । उक्तं च (आर्या) अवरेहि वि कूवजलेहि किं न जीवंति नाम वल्लीओ । जलहरजलसित्ताणं सा कावि अवरा मुहच्छाया ॥ १ ॥ तथोचितदानजलसिक्ता यशोवल्ल्यपि सश्रीका भवतीति । भुवनस्य स्वर्गमर्त्यपाताललोकरूपस्य आश्चर्यं विस्मयः क्रियतेऽनेनेति तत् । को नामाद्भुतं दानं दीयमानमालोक्य चेतसि न मुत्करोतीति गाथार्थः ॥ , Jain Education International तदुचितदानं केषु केषु विधीयत इति गाथात्रयेणाह - वेसेसिय- णेयाइय-मीमंसय-संख-भिक्खुपमुहेसु ॥ तियसट्ठिसहियतियसयकिरियाकिरियाइवाईसु ॥ ७८ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy