________________
३५३
सत्पात्रदानविषये श्रीअमरसेन-वरसेनकथा तद्विलोक्य निजे चित्ते हृष्टः श्रेष्ठी जगाद तम् । उपादत्स्वापरं भोज्यं पुनर्भोजनहेतवे ॥ १८९॥ सोऽपि प्राह न भोक्ष्येऽहं यतोऽद्य गुरुसन्निधौ । उपवासो मयाकारि ततः श्रेष्ठी बभाण तम् ॥ १९० ॥ कथं तर्हि त्वया पूर्वं भोजनं परिवेषितम् । सोऽप्यूचे स्वभुजायुग्मार्जितं मुञ्चामि तत्कथम् ॥ १९१ ॥ ततस्तौ सुकृतोद्युक्तौ श्रेष्ठिवात्सल्यहर्षुलौ । सुखेन निन्यतुः कालं पुण्यं ह्यत्रापि कामदम् ॥ १९२॥ गृहकर्मकृतो जीवो मुनिदानानुभावतः । त्वं बभूविथ भूमीशोऽमरसेनो नृपाङ्गभूः ॥ १९३ ।। गोपालस्याथ जीवस्तु जिनपूजानुभावतः । वरसेनोऽभवत् पञ्चशतदीनारलब्धिमान् ॥ १९४॥ भोगा निरन्तराः प्राप्ता रूपैश्वर्याद्यभङ्गराः । यद्दानपुण्यात्तत्पुष्पं फलं त्वग्रे भविष्यति ॥ १९५ ॥ यदेतस्माद् भवात्पञ्च भवान् सुरनरोद्भवान् । प्रवर्धमानलक्ष्मीकान् युवामवाप्स्यथस्तमाम् ॥ १९६ ।। ततः षष्ठे भवे पूर्वविदेहेषु नरेन्द्रताम् । भुक्त्वा त्यक्त्वा च तां दीक्षामादाय शिवमाप्स्यथः ॥ १९७ ॥ इमां गुरोगिरं श्रुत्वा जातजातिस्मृती तकौ । आत्तश्राद्धव्रतौ साधून्नत्वा प्रासादमीयतुः ॥ १९८॥ प्रतिग्राम प्रतिद्रङ्गं दानशालां विशालिकाम् । कारयामासतुर्जुनप्रासादानप्यनेकशः ॥ १९९ ॥ चिरतरं परिपाल्य गृहिव्रतं स वरसेनयुतोऽमरसेनराट् । सुगुरुपादपयोरुहसन्निधौ श्रितचरित्रभरो दिवमासदत् ॥ २०० ॥
(द्रुतविलम्बितम्)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org