________________
३५२
श्रीदानोपदेशमाला (गा. ७६) स्तोकेनानेन वित्तेन पूजा स्यात्कीदृशी प्रभो! । सूरयोऽपि विदित्वास्य भावमेवमुपादिशन् ॥ १७७ ॥ स्वल्पस्वेनापि देवार्चा, यथाशक्ति वितन्वतः । पुंसः स्याद्विपुला संपद्धर्मे भावो बली यतः ॥ १७८ ॥ ततः सहर्षः पुष्पाणि गृहीत्वा तैः कपर्दकैः ।। वासनावासितस्वान्तः, स जिनेशमपूपुजत् ॥ १७९ ।। तत्कृतां वीक्ष्य देवार्चा द्वितीयो गृहकर्मकृत् । विममर्शेति किं कुर्वे यत्कपर्दोऽपि नास्ति मे ॥ १८० ॥ तस्मिन्नवसरे प्रत्याख्यानं श्राद्धान् प्रकुर्वतः । । दृष्ट्वा स सूरिमाहैवं कृतेऽपि सुकृतं भवेत् ? ॥ १८१ ॥ भवतीत्युदिते सूरीन्द्रेण कृत्वौपवस्तकम् । स भोजनक्षणोऽगारं जगाम श्रेष्ठिना सह ॥ १८२ ।। औपवस्तकम्-उपवासम् । परिवेष्याशनं स्थाले, गृहद्वारमुपेत्य च । दिक्षु चक्षुः क्षिपन्नेष चेतस्येवमचिन्तयत् ॥ १८३ ॥ यदि मे पुण्ययोगेन कश्चिदेति मुनीश्वरः ।। तदा तस्मै वितीर्यैतत् कृतकृत्यो भवाम्यहम् ॥ १८४॥ यतः श्रेष्ठिगृहे कर्म कृत्वा प्राप्तमिदं मया । अतो निजभुजोपात्तं दत्तं पुण्याय जायते ॥ १८५ ॥ तस्मिन्नेव क्षणे साधुयुगलीममलीमसाम् । भिक्षार्थमागतां वीक्ष्य मनस्येवमचिन्तयत् ॥ १८६ ॥ क्वाहं कर्मकरो रङ्कः क्व चैतौ मुनिसत्तमौ । क्व न्यायोपार्जितं भक्ष्यं, यद्योगोऽयमभून्मम ॥ १८७॥ तन्मन्ये कापि संपद् भवित्री परजन्मनि । अतस्तेन मुनिभ्यां तद्. दत्तमद्भुतभावतः ॥ १८८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org