________________
३५१
सत्पात्रदानविषये श्रीअमरसेन-वरसेनकथा श्रुतज्ञानेन विज्ञाय, तयोः पूर्वभवं मुनिः । कथयाञ्चकृवान् सम्यक् सोत्कण्ठं शृण्वतोः पुरः ॥ १६५ ॥ इहैव भरतेऽस्ति श्रीऋषभानपुरं पुरम् । तत्राभयङ्करः श्रेष्ठी नाम्नापि क्रिययापि च ॥ १६६ ।। यथार्थनामिका तस्याभूत् कुशलमतिः प्रिया । कुर्वन्तौ गृहगोकर्माभूतां कर्मकरौ तयोः ॥ १६७ ॥ तौ सर्वदा जिनेन्द्रार्चामुनिदानादिसादरम् ।। निरीक्ष्य श्रेष्ठिनं चित्ते स्मेति चिन्तयतश्चिरम् ॥ १६८ ॥ समाने मानवत्वेऽपि यदयं श्रेष्ठिपुंगवः । दानादि कुरुते तत्प्राकृतपुण्यभवं फलम् ॥ १६९ ।। आवां कर्मकरावस्य रौद्रदारिद्र्यमुद्रितौ । प्राक्कृतासुकृतौ येन तेनात्रापि हि नो सुखम् ॥ १७० ॥ पुण्याभिलाषिणौ मत्वा श्रेष्ठी तौ जिनमन्दिरे । निन्ये कारितनेपथ्यौ चातुर्मासकपर्वणि ॥ १७१ ।। पूजार्थं हृद्यपुष्पादि दातुं प्रववृते वणिक् । यावत्तावदिमौ ब्रूतः स्म नादास्यावहे विभो! ॥ १७२ ॥ यस्य वस्तु फलं तस्यावयोरेव परिश्रमः । इति ब्रुवाणौ तेनापि बोधितौ नोक्तियुक्तिभिः ॥ १७३ ॥ ततः श्रेष्ठी निनायैतौ बोधाय गुरुसन्निधौ । तैरपि ज्ञातवृत्तान्तैस्तौ च पृष्टावथोचतुः ॥ १७४ ॥ स्वामिन्निजधनेनावां पूजयावो जिनेश्वरम् । तन्नास्त्येव पुनः प्राह गुरुः किमपि विद्यते ॥ १७५ ॥ गोपालः प्राह हे नाथ! कपर्दकशतं मम । पार्श्वे दुरोदरक्रीडायोग्यमस्ति न चापरम् ॥ १७६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org