________________
३५०
प्रणत्य भूपतिं प्राह कुमारोऽपि सहोदरः । दुःखानि कत्यहं वच्मि विहितान्येतया हि मे ॥ १५३ ॥ राज्ञा पृष्टोऽवदत्सोऽपि वृत्तान्तं कुट्टिनीकृतम् । नृपादेशात्ततः स्थाणौ बन्धयामास तां खरीम् ॥ १५४॥ सिन्धुरस्कन्धमारोप्य महोत्सवपुरस्सरम् । बन्धुं प्रवेशयामास नृपतिर्निजपत्तनम् ॥ १५५ ॥ सर्वापि जनताभ्येत्याभ्येत्यैनां कुट्टिनीखरीम् । दर्शं दर्शं पपाठोच्चैः श्लोकमेकमिति स्फुटम् ॥ १५६॥ अतिलोभो न कर्त्तव्यो लोभं चैव परित्यजेत् । अतिलोभाभिभूता सा कुट्टिनी रासभी कृता ॥ १५७ ॥ नृपाग्रहाद् द्वितीयानि सुमान्याघ्राप्य सा खरी । नरीकृत्य ततोऽमोचि तेनोपादाय पादुके ॥ १५८॥ युवराजपदं दत्त्वा बन्धवे गुणसिन्धवे ।
श्रीदानोपदेशमाला (गा. ७६ )
भूपालः पालयामास, पृथ्वीमेकपुरीमिव ॥ १५९ ॥ आनाय्य पितरावेतौ सपत्नजननीमपि ।
प्रीणयामासतुः सन्तो न हि कस्य हितावहाः ॥ १६० ॥ ताभ्यां श्वेतातपत्राधः स्नापनात् स्वोपकारकृत् । पावयित्वा स मातङ्गो, देशदानेन सत्कृतः ॥ १६१॥ अन्यदा तौ गवाक्षस्थौ विहरन्तौ पुरान्तरे । मुनी विलोक्य सोत्कण्ठौ, तत्प्रणत्यै वने गतौ ॥ १६२॥ भक्त्या नत्वा यती राजयुवराजौ निषीदतुः । तदग्रे च चकारैको मुमुक्षुर्धर्मदेशनाम् ॥ १६३॥ देशनान्ते मुनिर्भक्त्या पृष्टः स्वामिन्! पुरा भवे । किमावाभ्यां कृतं पुण्यं राज्यं येनाजनीदृशम् ॥ १६४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org