________________
सत्पात्रदानविषये श्रीअमरसेन-वरसेनकथा
३४९ प्रकटैर्लकुटाघातैः कुट्टयन् कुट्टिनीखरीम् । हासयन्नागरांश्चासौ कुमारो निरगात् पुरः ॥ १४१ ॥ साधु साधु कुमारेण कृते प्रतिकृतं कृतम् । इति संचिन्तयन्ती सा मगधा मुदिता हृदि ॥ १४२ ॥ अपरस्तु परीवारस्तारपूत्कारमाचरन् । पुरारक्षाय तवृत्तं गत्वा सर्वं न्यवेदयन् ॥ १४३ ॥ तदैव दुर्गपालोऽपि निर्गत्य नगराद् बहिः । ददर्श तं कुमारं तां ताडयन्तं मुहुर्मुहुः ॥ १४४ ॥ रे रे! कर्मेदृशं कुर्वन्नस्माकं पुटभेदने ।। न बिभेषीति तं दुर्गाधीशोऽत्यर्थमतर्जयत् ॥ १४५ ।। सकोपं भूपजेनापि, जल्पितः पुरपालकः । अरे! यस्य यमो रुष्टः स युद्धाय समेतु माम् ॥ १४६ ।। साक्षेपं तद्वचः श्रुत्वारक्षो रक्ष इवापरः । कुन्तकार्मुककौक्षेयैर्योद्धुमेनं प्रचक्रमे ॥ १४७ ॥ तत्प्रयुक्तानि शस्त्राणि लकुटभ्रमणात्तनौ । न लगन्ति कुमारस्य, विषाणीव गरात्मनि ॥ १४८ ॥ तेन न्यक्कृतमारक्षमेक्ष्याक्कायाः परिच्छदः । भूपायामरसेनाय, तत्स्वरूपं व्यजिज्ञपत् ॥ १४९ ॥ राजापि सपरीवारः कौतुकोत्तानमानसः । राजकुञ्जरमारुह्य तत्समीपमुपागमत् ॥ १५०॥ उपलक्ष्य महीपालोऽमरसेनः सहोदरम् । वरसेनं समुत्तीर्य गजादालिङ्गदादरात् ॥ १५१॥ नृपस्तमाह साश्चर्यः किमिदं वत्स! चेष्टितम् । प्रोत्तुङ्गचङ्गमातङ्गस्कन्धारोहोचितस्य ते ॥ १५२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org