________________
३४८
श्रीदानोपदेशमाला (गा. ७६) तद्वञ्चनाकृते पापा मगधावारितापि सा । प्रत्यङ्गपट्टकान् बद्ध्वागात् क्रन्दन्ती तदन्तिकम् ॥ १२९ ॥ कुमारोऽपि निजामर्षं वैदग्ध्यादप्रकाशयन् । कुट्टिनीं तामभाषिष्ट कष्टं किमिदमम्ब! ते ॥ १३०॥ मायया रुदती पापा सोपालम्भं तमालपत् ।। वत्स! त्वत्कारणादेतदवाप्तं कष्टमीदृशम् ॥ १३१ ।। तदा वत्स! कलाकेलिनिलयं विशतस्तव । कश्चिद्विद्याभृदभ्येत्य गृहीत्वा पादुके व्रजन् ॥ १३२ ।। मयाधारि करे यावत्तावत्तेनातिरोषिणा । उत्पाट्य पातितात्राहं तन्ममाङ्गमभज्यत ॥१३३॥ युग्मम् ॥ ज्ञाततत्त्वः कुमारोऽपि तामभाषत नाम्ब! माम् । दुनोति पादुकानाशो जीवन्ती मिलितासि यत् ॥ १३४ ।। ततस्तं सा करे धृत्वा, नीत्वा च निजमन्दिरे । कियत्यपि गते कालेऽपृच्छद् द्रव्यार्जनं पुनः ॥ १३५ ।। सोऽप्युवाचाम्ब! कामेनाराधितेन घनं धनम् । प्रदत्तमौषधिनामा वृद्धतारुण्यकारिणा ॥ १३६ ।। अमा-सह । लगित्वा पादयोस्तस्य सा याच्ञामकरोदिति । देहि वत्सौषधं तन्मे यौवनं येन जायते ॥ १३७॥ अम्ब! त्वदर्थमेवाहमानिनायेदमौषधम् । तत्कृतार्थीकुरुष्वाद्येति निगद्य मुमोद सः ॥ १३८॥ ततो लकुटमादाय कन्थां च नृपनन्दनः । पुष्पाण्याघ्राप्य तां सद्यो मेहरीमकरोत् खरीम् ॥ १३९ ॥ मुखयन्त्रणमासूत्र्य, पृष्ठे कन्थां निधाय सः । लकुटं च करे कृत्वा तामारुक्षद्रुषोत्कटः ॥ १४० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org