________________
३४७
सत्पात्रदानविषये श्रीअमरसेन-वरसेनकथा अहो अहं कथंकारं छलितः पापयानया । इत्थं विषद्य स स्वान्ते दध्यौ विधिविजृम्भितम् ॥ ११७ ॥ उक्तं च-परिजनसाहसधनमतयः किमु विदधति भुवि तस्य । विधिरखिलाहितघटनपटुः प्रतिदिवसं किल यस्य ॥ ११८ ॥ चिन्ताचान्तः कुमारोऽपि यावद् भ्रमति भूधरे । तावद्विद्याधरः कश्चित्सकृपस्तमवोचत ॥ ११९ ॥ कुमार! कुरु मा खेदं करिष्येऽहं त्वदीप्सितम् । आपक्षमत्र तिष्ठ त्वं कुर्वन् कन्दर्पपूजनम् ॥ १२० ॥ स्मरचैत्यपुरोरूढशाखिनोः सविधे त्वया । न गन्तव्यमिति प्रोच्य भोज्यं दत्त्वा च सोऽगमत् ॥ १२१ ।। कौतुकादेकदा राजतनयो द्रुमयोस्तयोः । जिघ्रन्नेकस्य पुष्पाणि, क्षणाद्रासभतां गतः ॥ १२२ ।। तत्रागतस्तथारूपं पक्षान्ते खचरोऽथ तम् । दृष्ट्वाकरोद् द्वितीयद्रुप्रसूनाघ्रापणान्नरम् ॥ १२३॥ तेनात्यर्थमुपालब्धः क्षमयित्वा स्वदूषणम् । स विद्याधरमप्राक्षीत्किमेतच्चित्रकृत्प्रभो! ॥ १२४॥ विद्याभृदाह चैत्याग्रे रोपितौ पादपाविमौ । खरमानवविद्याभ्यां वासितौ कौतुकान्मया ॥ १२५ ॥ स पुनः स्थापयित्वागात् कुमारं पञ्चवासरीम् । सोऽपि तवृक्षपुष्पाणि पृथक् पृथगुपाददे ॥ १२६ ॥ ततो विद्याधराधीशः प्रसन्नः पञ्चमे दिने । वरसेनमनैषीद् द्राक् श्रीकाञ्चनपुरं पुरम् ॥ १२७॥ तं पुनस्तादृशैर्भोगैर्विलसन्तमनेकधा । वीक्ष्याक्का विस्मिता दध्यावयमत्राययौ कथम् ॥ १२८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org