Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
३६३
अनुकम्पादानस्य स्वरूपम् विगलियवयाण सरणागयाण पत्थणपराण पंगूणं । काउरिसाण दुहीणं रोगेहिं गहियदेहाणं ॥ ८४॥ एएसिं जं दाणं सकरुणहियऊ पयच्छए दाया । तं अणुकंपादाणं परूवियं पुव्वसूरीहिं ॥ ८५ ॥
व्याख्या-दीणत्ति । दीनेभ्योऽनुकम्पापात्रेभ्यः, अनाथेभ्योनि:स्वामिकेभ्यः, विहीनचरणेभ्यः-छिनपादेभ्यः, नयनरहितेभ्यः-सर्वथान्धेभ्यः, बन्दिपतितेभ्यः--कारागाराद्युपद्रवमुद्रामुद्रितेभ्यः, बन्धनबद्धेभ्योनानाविधनिगडनिगडितेभ्यः, अजङ्गमेभ्यो-मनोवचनकायबलविकलेभ्यः, चः-समुच्चये ।
विगलियत्ति-विगलितवयोभ्यो-निरन्तरं जरापरिभूतेभ्यः, शरणागतेभ्यो-जीवितव्यापहारिभयभरविधुरत्वेन शरणं प्रपन्नेभ्यः, प्रार्थनापरेभ्योऽत्यन्तदीनत्वेन याच्ञानिरतेभ्यः, पङ्गभ्यः-संकुचितचरणेभ्यः, कापुरुषेभ्यो-दुर्वाग्वैरिवाराहंकारापहारकारिपौरुषरहितत्वेनाकिंचित्करेभ्यः, दुःखिभ्यः-पितृमातृभ्रातृकलत्रमित्रपुत्रस्वजनादिवियोगोत्पन्नास्तोकशोकसागरनिमग्नेभ्यः, रोगैहीतदेहे भ्यः-कासश्वासज्वर भरभगन्दरादिरोगैराक्रान्तशरीरेभ्यः ।
__ एएसिंति-एतेभ्य उपलक्षणत्वात् प्राणिभ्यो यद्दाता-दानवीरः, सकरुणहृदयो-दयार्द्रचेता, दानं-विभवजीवितव्यादिप्रदानं प्रयच्छति-दत्ते । तदनुकम्पादानं प्ररूपितं-भणितम्, पूर्वसूरिभिर्गणधरदेवैरिति-गाथात्रयार्थः । एतदेव दृष्टान्तेन स्पष्टयन्नाहजयउ जए मेहरहो इन्देण वि वणणीयचरिउ सो* । जस्सणुकंपादाणे रणरणए दुन्दुहीरावो ॥ ८६॥ * एष दृष्टान्तोऽन्यत्राभयदानविषये कथितम्, अत्र तु अनुकम्पादानविषये भणितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438