Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
३६०
अस्मिन्नवसरे कश्चिद्विप्रो दारिद्र्यविद्रुतः । रोमशः प्रत्यहं भिक्षावृत्तिकृद् रुक्षविग्रहः ॥ ३१॥ देशाननेकशो भ्रामं भ्राममप्राप्तवैभवः ।
वेश्मन्यागाद्यतोऽभाग्यवतां लाभोदयः कुतः ॥ ३२ ॥ तमर्थशून्यमालोक्य, भार्या पिङ्गलकुन्तला । विरूपवदना लम्बस्तनी चिपिटनासिका ॥ ३३॥ स्थूलोदरा परद्रव्यसतृष्णा कृष्णविग्रहा । राक्षसीवातिघोराख्यत् सा रुषा परुषाक्षरम् ॥ ३४ ॥ रे! निर्भाग्याद्य कर्णेन याचका अदरिद्रिणः । रैरूप्यरत्नवस्त्रोक्षाश्वादिदानेन चक्रिरे ॥ ३५ ॥ तत्त्वं विलम्बमुत्सृज्य, तत्र व्रज यथा स ते । ददाति किमपीत्युक्तस्तयासौ निरगात्ततः ॥ ३६॥ * यत्रास्ते कर्णदेवपालस्तत्र समागतः I जीर्णशीर्णांशुको विप्रो दत्तस्वस्त्ययनोऽवदत् ॥ ३७॥ राजन्नाजन्मदारिद्र्योत्कटलुण्टाकलुण्टितम् ।
मां तथा कुरु येनाहं नाऽभवं पुनरीदृशः ॥ ३८ ॥ कर्णो वितीर्णसम्पूर्णधनोऽपि हि ममाधुना । मा दानखण्डना भूयान्मानम्लानिविधायिनी ॥ ३९ ॥ इति ध्यात्वा निजस्वान्ते, भूमिदेवमवोचत । दत्तं मयाखिलं किंतु, वस्तुत्रय्यस्ति संप्रति ॥ ४० ॥ एकार्कपाकरसवत्याह्वा विद्या द्वितीयकः ।
11 88 11
पटः सकलरोगघ्नस्तृतीयः स्वर्णसंकलः एतद्वस्तुत्रयस्यान्तर्यत्ते ब्राह्मण ! रोचते तदेकं प्रार्थयस्वेति, राज्ञा पृष्टः स ऊचिवान् ॥ ४२ ॥
*
इदं चरणं सर्वप्रतिषु सप्ताक्षरीयमेव दृश्यते ।
श्रीदानोपदेशमाला (गा. ८१ )
Jain Education International
For Personal & Private Use Only
युग्मम् ॥
युग्मम् ॥
युग्मम् ॥
www.jainelibrary.org

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438