Book Title: Chitrakavyani Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 9
________________ September-2005 अथ हीयमानाक्षरम् नतनाकिमौलिमणिमण्डलीविभा भरभासुराङ्घिसरसीरुहासना । तव शर्मणे भवतु भारती भृशं दृढजाड्यखण्डनदिनेशभाततिः ॥२०-१॥ अत्र मझुभाषिणि( णी) छन्दसि प्रतिपामा(दा)द्याक्षरद्वयपातेन रथोद्धतावृत्तम्, अन्त्याक्षरद्वयपातेन नन्दिनीवृत्तम् ॥२०-१|| गङ्गोपलक्षित उमाहृदयाम्बुजार्को नित्यं विभाति शशिखण्डशिरोविभूषः । देवस्तु यो विषमनेत्रलसन्मुखश्री: कल्याणदो भवतु वः सहतादिवर्णः ॥२०-२॥ अथाऽपहुतिः - सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किं मिलतो नहि न हि सखि ! हैमनः पवनः ॥२१-१॥ इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता । स्मरसि कि सखि ! कान्तरतोत्सवं नहि धनागमरीतिरुदाहृता ॥२१-२॥२ अथ कथिताऽपहुति: आदौ श्लोकेऽत्र निर्दिष्टं विजानन्तु महाधियः । कस्मात् कस्मिन् समुत्पन्ने सरागं भुवनत्रयम् ॥२२-१।। आत्-कृष्णात्, औ-कामे ॥२२-१॥ पृथ्वीसंबोधनं कीदृक् कविना परिकीर्तितम् । केनेदं मोहितं विश्वं प्रायः केनाऽऽप्यते यशः ॥२२-२।।' १. १८६/३ सु.र.भा. . २. १८६/१३ सु.र.भा. ॥ ३. 'कविना' -हे को ! हे पृथ्वि !, इना कामेन, कविना काव्यकर्ता - इति उत्तरः । सु.र.भा. ॥ ४. १९६/६ सु.र.भा. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16