Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ September-2005 61 मणिभिरष्टभिर्युक्ते प्रणमत्या(मन्त्या) हरान्तिके । सुकेश्या कबरीभारे सन्त्यष्टौ हरमूर्तय: ॥५॥ ईदृशे मलिने मुण्डे सर्वधर्मबहिष्कृते । पतिता मस्तके नो चेत् विद्युत्काकेन भक्षिता ||६|| श्रुत्वा सागरबन्धनं दशशिरः(रा:) सर्वैर्मुखैरेकधा' भूयः पृच्छति वित्तिकं च चकितो भीत्याकुलः सम्भ्रमात् । बद्धः सत्यमपांनिर्धेिस्सलिलधिः कीलालधिस्तोयधिः पाथोधिर्जलधिः पयोधिरुदधिः वारांनिधिर्वारिधिः ॥७॥ इन्दुरिणरत्नमश्वतिलकः श्रीपारिजातस्सुधा वर्गस्वर्गपरिच्छदः समजनि त्वत:(त्तः) सुरैः प्रार्थितात् । धिग्लोकं तव यस्तथाऽपि तनुते तोयाङ्कनामावली मम्भोधिर्जलधि: पयोधिरुदधि(धि:) वारांनिधिर्वारिधिः ॥८॥ कान्ते ! त्वत्कुचचूचुका तदुपरि स्मेरा च हारावली त्वद्वक्त्रं तरुणाङ्गि ! बिम्बितमनुच्छायालताश्यामताम् । त्वं सर्वाङ्गमनोरमे त्रिजगतां बध्नासि वृष्ट्या यतो - जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥९॥ ज्ञेयं दुर्जनमानसं परिणतिश्यामं न मैत्रीस्थिरं भूयोऽपि स्फुटमस्फुटं च गुणवत्सन्दूषणं(णे?) सङ्गतः (तम्) । संरोधि व्रणमण्डलस्य सहसा नित्यं परेषां बुधे जं०.... [ जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्] ॥१०॥ कैषा भूषा नवीना तव भुजगपते ! भूषयामास शम्भु भूत्या मन्मौलिमालां सदशनवशतान्नक्षपातान् विजित्य । १. एकदा इति सु.र.भा. । २. तूर्णं - इति सु.र.भा. !! ३. वार्तिकान् स चकितो - इति सु.र.भा. || ४. निधिर्जलनिधि:-इति सु.र.भा. ॥ ५. १८३/६१ सु.र.भा. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16