Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
60
अनुसन्धान ३३
'सर्वस्य द्वे सुमतिकुमती सम्पदापत्तिहेतोवृद्धो यूना सह परिचयात् त्यज्यते कामिनीभिः । एको गोत्रे स भवति पुमान् यः कुटुम्बं बित्ति
स्त्री पुम्वच्च प्रभवति यदा तस्य गेहं विनष्टम् ॥७॥ अथ पादत्रयरूपारामं लक्ष(क्ष्म)मपूर्वजं रघुवरं सीतापति सुन्दरं
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नाऽऽलिङ्गितम् । वातघ्नं कफनाशनं कृमिहरं दुर्गन्धनिर्नाशनं · ताम्बूलं न तु येन लक्षितमसौ वातात्मजो दृष्टवान् ॥१॥ असंभृतं मण्डनमङ्गयष्टे
रनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं
*सरस्वती श्रीललना नवीना ||२|| अथ श्लैषा(श्लेषाः)
घनबालमनोहारि सुमनोभिनिषेवितम् । बहुधा तु लसत्कान्ति पुस्तकं मस्तकायते ॥१॥ उन्मीलत्तिलकं काऽपि (वाऽपि) क्वचित् प्रस्फुरितालकम् । क्वचित् पत्रावलीकीर्ण(ण) स्त्रीमुखं पर्वतोपमम् ॥२॥ . गोलब्धजन्मा मधुरः शिखिप्रीतिविवर्द्धनः । उन्मीलदर्जुनच्छायो नवनीतायते गिरिः ॥३॥ कलानिधिकरस्पर्शात् प्रसत्रोल्लासितारका । बिभ्राणाम्बरमानीलं कामिनी यामिनीयते ||४||
१. सर्वस्य द्वे सुमतिकुमती सम्पदापत्तिहेतू, एको गोत्रे प्रभवति पुमान् यः कुटुम्बं
बिभर्ति । वृद्धो यूना सह परिचयात् त्यज्यते कामिनीभिः, स्त्रीपुंवच्च प्रभवति
यदा तद्धि गेहं विनष्टम् ।। इति चत्वारि पाणिनेः सूत्राणि समस्या-इति सु.र.भा. || २. बाल्यात् परं साधु वयः प्रपेदे - इति सु.र.भा. || ३. २५५/२० सु.र.भा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16