Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ 58 अनुसन्धान ३३ 'शिरसि देवनदी पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका । निबिडमानवती रमणाङ्गके क्वचन चुम्बनमारभते स्म सा ॥५॥ क्रोधातिशयेन सविषो गलश्चुम्बित इति भावः ॥५॥ ........ नागराज भवति प्रत्यार्थविध्वंसनव्यापारे क(कृ)तनिश्चये सति सतां दारिद्मविध्वंसके । तत्कान्ता क्षितिधृत्तटीषु मणिभिर्नीलैः सुरम्यास्वहो कोकान् षट्पदमालिकाश्च कमलान्यालोकयन्त्यद्भुतम् ॥६।। स्तनात्मकमुखप्रतिबिम्बावलोकनात् यद्वा नीलमणिजनितान्धकारे दिनज्ञानाय कोकसंयोगं षड्पदप्रचारं कमलविकाशं च विलोकयन्तीति भावः ॥६॥ दृष्टोऽयं सरिताम्पतिः प्रियतमे बद्धोऽत्र सेतुर्मया कान्त(न्ता)क्वेति मुहुर्मुहुः सकुतुकं पृष्टे परं विस्मिते । अत्राऽऽसीदयमत्र नाऽत्र किमिति व्यग्रे निजप्रेयसि व्यावृत्त्याऽऽस्यसुधानिधि समभवन्मन्दस्मिता जानकी [७॥ स्वमुखचन्द्रदर्शनाभितजलधिकल्लोलाच्छादितस्य सेतोः प्रकटनाय क(?)मुखवव्यावृत्तिरिति भावः || समुद्धतानां दनुजेश्वराणां विमर्दने यस्य चकास्ति धैर्यम् । स श्रीपतिः किं निजनामधेयं पटुर्जपद्भ्यो नितरां बिभेति ॥८॥ वैकुण्ठे सम्पर्दो भविष्यतीत्याशयेनेति भावः ॥८॥ अन्योन्यं भुजगवराः शङ्करसर्वाङ्गभूषणीभूताः । पश्यन्तो वदनानि प्राय: कम्पं भजन्ति को हेतुः ।।९।। नीलकण्ठं विलोक्य केनाऽयं दंशापराधः कृत इति ॥९॥ १. १९०७५ सु.र.भा. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16