Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
September-2005
मलयाद्रिसमुद्भूते मन्दं चलति मारुते ।
निनिन्द वानरान् काचित्कामिनी यामिनीमुखे ॥१०॥ मलयाद्रिः सेतुबन्धनाय कथमेतैर्न नीत इत्याशयः ॥१०॥
इति भावदशकम् । अथ समस्या:तत्र तावद्वैदिकी
'कामं कामदुधे(घ) धुक्ष्व (धुझ्व) मित्राय वरुणाय च । वयं वीरेश (धीरेण) दानेन सर्वान्कामानशीमहि ॥१॥ तं नमामि महादेवं यत्रियोगादिदं जगत् । कल्पादौ भगवान् धाता यथापूर्वमकल्पयत् ॥२॥ गायका यूयमायात यदि मा गति लिप्सकः । धनदस्य सखा सोऽयमुपास्मै गायता नरः ॥३॥ अधरः किश(स)लयमध्री पद्मौ कुन्दस्य कोरकान् दन्ताः । कः कौ के कं को कान् हसति हसतो हसन्ति हरिणाक्ष्याः ॥४॥ नदीप्रवाहवेगेन प्रोन्मूल्यन्ते महाद्रुमाः । वेतसा नैव बाध्यन्ते अरेदो नामिनो गुणः ॥५॥ न लोपो वर्णानां न हि च परत: प्रत्ययविधिनिपातो नाऽस्त्येव क्षणमपि न भग्नाः प्रकृतयः । गुणो वा वृद्धिर्वा सततमुपकाराय जगतां मनोर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥६॥
१. अत्र 'कामं कामदुधं धुक्ष्व, मित्राय वरुणाय च, सर्वान् कामानशीमहि' इति च
समस्या-इति सु.र.भा. ॥ २. १८१/२ सु.र.भा. ॥ ३. वचिदपि इति सु.र.भा. ॥ ४. १०६/१५३ सु.र.मा. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16