Page #1
--------------------------------------------------------------------------
________________
चित्रकाव्यानि
सं. मुनि धर्मकीर्तिविजय
or
in
आ एक संग्रहग्रन्थ छे जेमा ७१ सुभाषित-श्लोकोनो संग्रह करवामां आव्यो छे, तेमां पण मुख्यत्वे समस्याओ, प्रहेलिकाओ, श्लेषकाव्यो व. नो समावेश थाय छे. अने आ रीते तेनुं 'चित्रकाव्यो' एवं नाम पण सार्थक थाय छे.
ग्रन्थनी शरुआत विविध खाद्यपदार्थो तथा पक्षिओनां नामोथी गर्भित, श्रीकृष्णनी स्तुतिथी थाय छे. बन्ने श्लोकोनी सरळ व्याख्या पण साथे आपेल छे. त्यार बाद एक संस्कृत समस्या तथा एक प्राकृत सुभाषित मूक्यां छे, अने ते पछी विषयवार, विविध समस्या व. थी गर्भित श्लोको मूकवामां आव्या छे. विषयोनो क्रम तथा श्लोकोनी संख्या आ प्रमाणे छ : विषय
श्लोक संख्या अन्तर्लापिका बहिर्लापिका कर्तृगुप्त कर्मगुप्त करणगुप्त सम्प्रदानगुप्त अपादानगुप्त
सम्बन्धगुप्त ९. अधिकरणगुप्त १०. सम्बोधनगुप्त ११. क्रियागुप्त १२. कर्तृसम्बन्धाधिकरणगुप्त १३. मात्राच्युतक १४. बिन्दुगुप्त १५. बिन्दुमजाली (बिन्दु मयाली?)
or
ॐ
on
3
or
on
,
or
on
or
or m
or
or
on a
Page #2
--------------------------------------------------------------------------
________________
अनुसन्धान ३३
ا
م به
یه
له
م
سه مر له
ه
و
به
ه
१६. दीयमानाक्षर १७. हीयमानाक्षर १८. अपहति १९. कथितापह्नुति २०. गतप्रत्यागत २१. प्रहेलिका २२. अर्थी(थ)प्रहेलिका २३. दूरान्वयिजाति २४. भावगूढ २५. समस्या २६. पादत्रयरूप समस्या २७. श्लेष
कुल ६७ आ श्लोकोमाथी केटलाक श्लोकोना कर्ता व. नो निर्देश संग्रहकारे ज करेलो छे. आमांना २५ श्लोको सुभाषितरत्नभाण्डागार (सु.र.भा.)मां नाना-मोटा फेरफार साथे संगृहीत छे. (तेनो तथा सु.र.भा.ना आधारे ज केटलाक श्लोकोनां शार्ङ्गधर पद्धति-भोजप्रबन्ध व. मूळ स्थानोनो निर्देश ते ते स्थळे टिप्पणीमां करेल छे.)
केटलीक समस्याओना उकेलो प्रतिमां संग्रहकारे ज आप्या छे. तथा केटलीक समस्याओना उत्तरो सु.र.भा.ने आधारे ते ते स्थळे टिप्पणीमां आपेल छे.
लेखनमां अशुद्धि घणी छे. शक्य स्थळोए शुद्धि करवानो प्रयत्न कर्यो छे.
प्रतिपरिचय : आ संग्रहग्रन्थनी मूल प्रतिना कुल पत्रो ९ छे. अक्षरो सुवाच्य छे. तेनुं लेखन सं. १७७६ ना आसो सुद ११ना रविवारे थयुं छे एम प्रान्ते लखेल पुष्पिकाथी जणाय छे.
संग्रहकारना नाम व. नो कोई निर्देश नथी, छतां ग्रन्थारम्भे श्रीगौतमाय
Page #3
--------------------------------------------------------------------------
________________
September-2005
49
नमः' एम श्रीगौतमस्वामिने नमस्कार करवामां आव्यो छे तेना परथी एम अनुमानी शकाय छे के कोई जैन पण्डिते (मुनि/गृहस्थे) आ संग्रह कर्यो हशे.
श्री गौतमाय नमः ॥
अथ चित्रकाव्यानि लिख्यन्ते । लक्ष्मीवन् कृतका कू रसू रणदही दूध[क्] क्षमः पापडी
___ लाडूढोकलघी वडाञ्छन वडी खाजाम्बुदालीरुचिः । मण्डाशाकरखण्डनो विविभुना क्षीरावसातुल्य मां
सासुं हालितडिन्नभाङ्गवसनोऽव्याः सेवकं सारवान् ॥१॥
लक्ष्मीरस्याऽस्तीति लक्ष्मीवान्, तस्य सम्बोधन] लक्ष्मीवन् !! अवगतं लाञ्छनं यस्म(स्मा)दसौ अवलाञ्छनस्तस्य [सम्बोधनाहे अवलाञ्छन !! क्षीरे आवसतीतिक्षीरवास(क्षीरावस)स्तस्य सम्बोधनं हे क्षीरावस(से)ति । न विद्यते तुल्यो यस्य स अतुल्यस्तस्य सम्बोधन(न) हे अतुल्य ! । ह इति स्फुटत्वम्। मां सेवकमव्या:-रक्ष । किम्भूतः ? कृतकू:-कृतं को:-पृथ्वि(थ्)व्याः अवनंरक्षणं येन(नाऽ)सौ कृतकूः । पुनः किम् त्वं? असूः-सूयते-उत्पद्यते ऽसौ सूः, न सू: असूः । पुनः किम् ? रणदहिन्- रणं-सङ्ग्रामं वदन्ती(ददति)ते रणदाः- शत्रवः, तान् हिनस्तीति रणदहिन्-शत्रुहः इत्यर्थः । पुनः किम् ? दूधक्- दुह्यं(व)-दुःखं-पाप-परितापं वा दहतीति अदुधूक(दूधक्) । पुनः किम् ० ? क्षम:-क्षमाऽस्याऽस्तीति क्षमः । डलयोरने(भे)दत्वात् पापलीः । [ यदुक्तम्-]
बवयोर्डलयोश्चैव रलयोः सशयोस्तथा ।
अभेदमेव वाञ्छन्ति येऽलङ्कारविदो जनाः ॥ लुञ् छेदने, पापं लुनातीति पापली: । पुनः किम् ? इलाट.. इलायां-पृथिव्यामटती'ति इलाट् । पुनः किम् ? [विाविभुना-वीनां-पक्षी(क्षि)णां विभुर्गरुडः, तेनोढः । पुनः किम् ? अकलघी- अकं-दुःखं लघयतीति अकलधी । [वडी] बवयोरभेदः, बली-बलमस्याऽस्तीति बली । पुनः किम् ? खाजाम्बुदालीरू(रु)चिः-खे-आकाशेऽजती(न्ती)ति खाजा(जाः) गगनचराः, ये
Page #4
--------------------------------------------------------------------------
________________
अनुसन्धान ३३ अम्बुदा(दास) तेषामाली-पङ्क्तिस्तस्या रुगिव रुक् यस्याऽसौ घनश्याम इत्यर्थः । किम् ? मण्डाशाकरखण्डनः-मण्डाश्चारुणुदियः (श्चाणूरादयः ?) तेषामाशा:इच्छास्तासामोका(माकारः-समूहस्तं खण्डयतीति मण्डाशाकरखण्डन:मल्लेच्छासमूहनाशकर इत्यर्थः । हे क्षीरसागरे आ समन्ताद्भावेन वस्य(स)तीति हे क्षीरावस ! । हे अतुल्य !- नाऽस्ति तुल्यो यस्याऽसौ हे अतुल्य ! किम्० माम् ? सासु(सुं-असवः प्राणास्तैः सह वर्तमानम् । पु० ? अलितडिनिभाङ्गवसन:-अङ्गं न (च) वसनं चाऽङ्गवसने, अलिश्च तडिच्चाऽलितडितो, तयोः निभाऽऽभा, तद्वन्निभा ययोस्तेऽलितडिनिभे अङ्गवसने यस्याऽसौ अलितडिन्निभाङ्गवसनः । पु० ? सारवान्- सारो बलमस्याऽस्तीति सारवान्पालनसमर्थ इत्यर्थः ॥१॥
कोलकृतिरपारेवो मोरोहंसो जलोदरी ।
कंसारिरात्तडीडो-बो वाघ(श्च)लो भूकलोऽवतु ||२|| कंसारि:-श्रीकृष्णः । वो-युष्मान्(न)वतु, बवयोरैक्यं, रक्षतु । कोलकृतिः-कोलस्य रूपं यस्य सः । आ(अ)पारेव:-आ(अ)पारे० संसारेऽवति रक्षति । तथा मोरोहंस:-मा-लक्ष्मीः , तस्याः उराः]-वक्षः, तत्र हंस इव हंसः । तथा जालोदरं-[जलं गृहं यस्याः सः । किम् ? आत्तलील:-आत्ता-अङ्गीकृता लीला-विलासो येन सः । तथा किम् ? वाश्वल:-निश्चये [न] अश्वं लुनातीति(?)। तथा किम् ? भूकल:-भुवं कलयति-उद्धरति । किम् ? कंसारिः ।
पाण्डवानां सभामध्ये दुर्योधनः समागतः ।
तस्मै गां च हिरण्यं च रत्नानि विविधानि च ॥ मह देसु रसं धम्मे तमवसमासंगमागमाहरणे । हरवहुसरणं तं चित्तमोहमवसरउ मे सहसा ॥३॥
१. 'आगताः पाण्डवाः सर्वे दुर्योधनसमीहया' इति सु.र.भा. १९३/१, शार्ङ्गधरपद्धतौ
५३४; यो धनसमीहया आगतस्तस्मै सर्वे पाण्डवाः गां च सुवर्णं च विविधानि रत्नानि च अदुः - इति सु.र.भा. ॥
Page #5
--------------------------------------------------------------------------
________________
September-2005
51
का काममामन्त्रय ।
अथाऽन्तलापिका
रवे: 2कवेः किं समरस्य सारं 'कृषेर्भयं किं *प्रमुषन्ति भृङ्गाः । खिलाद् भयं विष्णुपदं च केषां
भागीरथीतीरसमाश्रितानाम् ॥४॥ अथ बहिर्लापिकामित्रामन्त्रय मञ्जजीवितसमां दक्षकतू कीदृशौ
कीदृक्षौ मरुकीकंटो(कटौ) शिखिरुतिः का काममामन्त्रय । को नकं विरहातुरौ चरति कस्तोये मिलित्वा भृशं
लिप्यभ्यासपरायणा गुरुगृहे किं वा पठन्त्यर्भकाः ॥५॥ क का कि की कु कू के कै को कौ कं कः - कालिदासस्य ||५|| त्रय्याद्याः के धनं किं भवति मृगमदे को गुण: काऽथ माया
केगाधाः किं तृषाणां जलमलघुसुखं योषितां केन दीनः । कः के देवारयः किं निमिपुरमदिति—हि केषां जनेत्री
क्व काको वैष्णवास्ये बुध ! वसति जपो मध्यवर्णैः पदानाम् ॥६॥ त्रय्याद्याः- ओ ओ ओ (ॐ) 1 धनं किं - कनकम् । मृगमदे को गुणः- आमोदः । माया का - शम्भवा । अगाधाः के- सागराः । तृषाणां जलं किं - जीवनम् । योषितां केन सुखं - कान्तेन । दीन: क:-प्रवासी । देवारयः के - असुराः । निमिपुरं किं - विदेहः । अदितिः केषां जनेत्रीदेवानाम् । काकः क्व गच्छति-वियति । वैष्णवास्ये पदानां मध्यवर्णैः कृत्वा को जपो वसति - ॐ कारादि वियत्पर्यन्तानां पदानां मध्यवर्णे उपात्ते "ॐ नमो भगवते वासुदेवाये"ति द्वादशा(शव)ो विष्णुमन्त्रो भवति ॥६॥
२. १. रवे: भा, २. कवेः कान्तिः, ३. समरस्य रथी-योद्धा, ४. कृषेर्भयम्-ईति:
अनावृष्ट्यादिः, *"किं किमुशन्ति' इति सुभाषितरत्नभाण्डागारे (सु.र.भा.), ५. भृङ्गा रसमुशन्ति वाञ्छन्ति, ६. खलाद् भयम्- आश्रितानाम्, ७. विष्णुपदं च
भागीरथीतीरसमाश्रितानाम् - इति सु.र.भा. ॥ ३. सु.र.भा. पृ. १९७/श्लो, २१; शार्ङ्गधरपद्धतौ ५५४ ।
Page #6
--------------------------------------------------------------------------
________________
52
श्रीरुपास्ते कामीशानं कमीशानं च पार्वती । अमुं निगदितं प्रश्नं यो जानाति स पण्डितः ॥७॥ अथ कर्तृगुप्तम्
शरदिन्दुकुन्दधवलं नगनिलयरतं मनोहरं देवम् । यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति ||८|| मनः कर्तृपदम् ॥८॥
अथ कर्मगुप्तम्
मांसं भुङ्क्ष्व द्विजश्रेष्ठ ! सन्त्यज्याऽखिलसत्क्रियाम् । संदिष्टं ब्रह्मणा पूर्वं द्विजानां गृहमेधिनाम् ॥९॥ मां लक्ष्मीमिति कर्म ||९||
अथ करणगुप्तम्
मदमत्तमयूरस्य मलयस्य गिरेस्तटे ।
सीताविरहसंतप्तं रामं मुहुरमूमुहत् ॥ १०॥
मयूरस्य गिरा कृत्वा इ:- कामो रामममूमुहदित्यन्वयः ॥१०॥
अथ सम्प्रदानगुप्तम्
अम्भोरुहमये स्नात्वा वापीपयसि कामिनी 1
ददाति भक्तिसम्पन्ना पुष्पं सौभाग्यकाम्यया ॥ ११॥ अये - कन्दर्पायाऽम्भोरुहं ददातीत्यन्वयः ॥११॥
अथाऽपादानगुसम्-
सरसीतोयमुद्धृत्य जनः कन्दर्पकारकम् । पिबत्यम्भोजसुरभि स्वच्छमेकान्तशीतलम् ॥ १२॥
अनुसन्धान ३३
सरसीतः कं - जलमुद्धृत्येति संबन्ध: ।
सरसीत इत्यपादानम् ॥१२॥
१. श्री: उम् = विष्णुम्, पार्वती अम् = शङ्करम् ॥ ४. 'पुत्रसौभाग्यकाम्यया' इति सु.र.भा. ॥ २. 'नगरपतिनिलयं' इति सु.र.भा. ।
५. सु.र.भा. १९४/३१ ॥
३. सु.र.भा. १९४/२५ ॥
६. सु.र.भा. १९४/३४
Page #7
--------------------------------------------------------------------------
________________
September-2005
[अथा सम्बन्धगुप्तम्
बालया पृथिवीपाल ! व्या(व्य)लोक्यत तयाननम् ।
तत: प्रभृति तां निन्ये स्मरः स्वशरवेध्यताम् ॥१३॥ ते आननमिति सम्बन्धः ॥१३॥ [अथाऽJधिकरणगुप्तम्
या कटाक्षछटापातैः पवित्रयति मानवम् ।
एकान्ते रेपिर्तप्रीतिरस्मि सा कमलालया ॥१४॥ ए-विष्णुरूपिणि कान्ते इत्यधिकरणम् ॥१४॥ अथ सम्बोधनगुप्तम्- धर्मदासस्य
हारकेयूररत्नानि धनानि विविधानि च ।
ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम् ॥१५॥ ब्राह्मणेति सम्बोधनम् ॥१५॥ अथ क्रियागुप्तम्
दामोदरधृताशेषजगत्त्रय ! जनार्दनः(न!) ।
संसारापारपाथोधिमज्जनप्रभवं भयम् ॥१६-१॥ मा दा इति क्रिया ॥१६-१||
पामारोगाभिभूतस्य श्लेष्मव्यौधिमयस्य च । .
यदि तें जीवितस्येच्छा तदा भोः) शीतलं जलम् ॥१६-२॥ शीतलं जलं मा पा इति क्रिया ॥१६-२||
कान्तया कान्तसंयोगे किमकारि नवोढया ।
अत्रापि कथितं श्लोके यो जानाति स पण्डितः ॥१६-३।। अत्रापीति क्रिया ॥१६-३॥ १. 'रोपितप्रीति०' इति सु.र.भा. ॥ २. सु.र.भा. १९४/३८ ॥ ३. '०व्याधिनिपीडित ! इति सु.र.भा. ॥ ४. सु.र.भा. १९४/१७; जल्हणस्य सूक्तिमुक्तावल्याम्-९८-१ ॥ ५. १९३/७ सु.र.भा. ||
Page #8
--------------------------------------------------------------------------
________________
अनुसन्धान ३३
कर्तृसम्बन्धाधिकरणगुप्तम्- यथा
कावेरीरम्यराजीवविलसद्गन्धबन्धुना ।
मधुमाससमीरेण वर्द्धते कुत्र कस्य का ॥१७॥ कौ-पृथिव्याम्, ए: कामस्य, ईः शोभा । मात्राच्युतकम् -
दशान्तरस्थितान् भावान् का(क)लातीतानपि स्फुटम् ।
कवलज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥ अत्र देशकालकेवलाः ॥१७-२॥ बिन्दुगुप्तम्
यथा 'सत्प्रभवः स्निग्धः सन्मार्गविहितस्थितिः ।
तथा सर्वाश्रय: 'सत्यमय(य)मे वकुलद्रुमः ॥१८-१।। बिन्दुमजाली(मयाली?)
ठिठठठठूठाठटुं ठठ((ठिट्ठ)ठिंठोः ठठुट्ठठीठठिठः । ठठठुठठठिगठुठठाठठा] ठठठीठठठोठठटुंठः ॥ त्रिनयनचूडारत्नं मित्रं सिन्धोः] कुमुद्वतीदयितः । अयमुदयति धुसृणारुणा रमणीवदनोपमश्चन्द्रः ॥
अयं कुमुद्वतीं मुदयतीत्यर्थे बिन्दुच्युतकमपि भवति ।। अथ दीयमानाक्षरम्
सानुजः काननं गत्वा नैकसेयान् जघान कः ।
मध्ये वर्णकृ(त्र)यं दत्त्वा रावणः कीदृशो वद ॥१९॥ राक्षसोत्तमः ॥१९॥ १. "सत्प्रसवः' इति सु.र.भा. ॥ २. अत्राऽनुस्वारत्यागेन 'अयमेव कुलद्रुमः' इति स्थितमर्थात्- अयं पुमान् कुले द्रुम इव
द्रुमो वृक्षः - इति सु.र.भा. ॥ ३. १९५/४ सु.र.भा. ||
४. २९९/११ सु.र.भा. || ५. विकासाधा (निकसाया) अपत्यानि निकसा: (नैकसेया:) राक्षसास्तान् । ६. १९९/२८ सु.र.भा. ।
Page #9
--------------------------------------------------------------------------
________________
September-2005
अथ हीयमानाक्षरम्
नतनाकिमौलिमणिमण्डलीविभा
भरभासुराङ्घिसरसीरुहासना । तव शर्मणे भवतु भारती भृशं
दृढजाड्यखण्डनदिनेशभाततिः ॥२०-१॥ अत्र मझुभाषिणि( णी) छन्दसि प्रतिपामा(दा)द्याक्षरद्वयपातेन रथोद्धतावृत्तम्, अन्त्याक्षरद्वयपातेन नन्दिनीवृत्तम् ॥२०-१||
गङ्गोपलक्षित उमाहृदयाम्बुजार्को
नित्यं विभाति शशिखण्डशिरोविभूषः । देवस्तु यो विषमनेत्रलसन्मुखश्री:
कल्याणदो भवतु वः सहतादिवर्णः ॥२०-२॥ अथाऽपहुतिः -
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किं मिलतो नहि न हि सखि ! हैमनः पवनः ॥२१-१॥ इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
स्मरसि कि सखि ! कान्तरतोत्सवं नहि धनागमरीतिरुदाहृता ॥२१-२॥२ अथ कथिताऽपहुति:
आदौ श्लोकेऽत्र निर्दिष्टं विजानन्तु महाधियः ।
कस्मात् कस्मिन् समुत्पन्ने सरागं भुवनत्रयम् ॥२२-१।। आत्-कृष्णात्, औ-कामे ॥२२-१॥
पृथ्वीसंबोधनं कीदृक् कविना परिकीर्तितम् ।
केनेदं मोहितं विश्वं प्रायः केनाऽऽप्यते यशः ॥२२-२।।' १. १८६/३ सु.र.भा. . २. १८६/१३ सु.र.भा. ॥ ३. 'कविना' -हे को ! हे पृथ्वि !, इना कामेन, कविना काव्यकर्ता - इति उत्तरः ।
सु.र.भा. ॥ ४. १९६/६ सु.र.भा. ॥
Page #10
--------------------------------------------------------------------------
________________
56
अनुसन्धान ३३
अथ गतप्रत्यागतम् -
यत्वादन्वेषकाग्नाद्या(का ग्राह्या) लेखकैर्मसिमल्लिका ? ।
घनान्धकारे निःशङ्कं मोदते केन बन्धुकी ॥२३॥ नालिकेरजा ॥२३॥ अथ प्रहेलिका
आद्यन्तस्यायिनी नित्यं कमला त्वयि वर्द्धताम् । अमध्यमं च सुकृतं भजस्व वसुधाधिप ! ॥२४-१॥ पङ्कजस्य स्थिती मध्ये सत्यलोकान्तमास्थितः । कल्पानामादिभूतश्च क एष नाः पितामहः ॥२४-२॥ य एवाऽऽदि(दिः) स एवाऽन्त्यो मध्यो भवति मध्यमः ।
एतावदपि न जानाति स किं पश्यति मानवः ॥२४-३॥ अथाऽऽर्थी प्रहेलिका
सदारिमध्याऽपि न वैरयुक्ता नितान्तरक्ताऽपि सितैव नित्यम् ।
यथोक्तवादिन्यपि नैव दूती का नाम कान्तेति निवेदयाऽऽशु ॥२५॥ अथ दूरान्वयिजाति
ज्येष्टो मासोऽनुगा शय्या कम्बलो यस्य शङ्करः । इति स्तात् बाणजन्मेशपिता पुत्रो विनायकः ॥२६-१।। धम्मिलस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्जुन्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥२६-२॥
१. प्रशस्ता मस्मि(सि)रिति मसिमल्लिका-इति प्रतिटिप्पण्याम् ।। २. य एतन्नाभिजानीयात् तृणमात्रं न वेत्ति सः । इति सु.र.भा. ॥ ३. तृणमानं न वेत्ति सः । किं नाम तृणम् ? यवस(सम्) यवसं तृणमर्जुनमित्यमरः ।
इति प्र.टि. ॥ ४. १८५/१८ सु.र.भा. ॥ ५. 'सारिका' इति सु.र.भा. ॥ ६. १८५/३२ सु.र.भा. ||
Page #11
--------------------------------------------------------------------------
________________
September-2005
चित्र विचित्रभेदं यत्कविभिर्बहुधोदितम् ।
ग्रन्थगौरवभीत्यैव मयेह तदुपेक्षितम् ॥२६-३|| इति श्रीभट्टगोविन्दसङ्ग्रहीते 'सभ्याभरणे' चित्रमरीचिः । अथ भावगूढम्
'काचित्कान्ता रमणसविधे प्रेषयन्ती करण्डं प्रायोवस्थाकलितमलिख व्यालमस्योपरिष्यात् । गौरीनाथं तदनु चकिता चम्पकं गात्रहेतून्
पृच्छत्यार्यान् निपुणधिषणान् मल्लिनाथ: कवीन्द्रः ॥१॥ करण्डस्थपुष्परक्षार्थमेतानलिखदिति भावः ॥१॥
विक्रीय विस्पृष्टमुखेन बाला मालाकृत: कैरवकोरकाणि । विक्रेतुकामा विकचाम्बुजानि
चेलाञ्चलेनाऽऽननमावृणोति ॥२॥ विकसितकमलानां मुखचन्द्रदर्शनात् सङ्कोचनभीत्येति भावः ॥२॥
काचित् प्रयुक्ता खलु देवरेण गृहाण शस्त्र व्रज राजमार्गम् । विलोक्य शय्यामिति लज्जिता सा
स्मेरानना नम्रमुखीबभूव ॥३॥ शय्यायां तस्याः पुंभावचिह्न दवा(दृष्ट्वा) देवरेणोपहसितेति भावः ॥३॥
प्राचीनस्मृतविरहव्यथातिभीत: काकुत्स्थः कृतकुरकु)तुकाक्षिनिमीललीलः । संपूर्ण(णे)शशिनि चिराय लग्नदृष्टेः
प्रेयस्याः स्थगयति लोचने कराभ्याम् ॥४॥ कनकमृगवत् मृगाङ्कमृगमपि याचयिष्यतीति भावः ॥४|| १. काचिद् बाला रमणवसतिं प्रेषयन्ती करण्डं, सा तन्मूले सभयमलिखत
व्यालमस्योपरिष्टात्। गौरीनाथं पवनतनयं चम्पकं चाऽस्य भावं, पृच्छत्यार्यान् प्रति कथमिदं मल्लिनाथः कवीन्द्रः ॥ इति सु.र.भा. १९१८४ ॥
Page #12
--------------------------------------------------------------------------
________________
58
अनुसन्धान ३३
'शिरसि देवनदी पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका । निबिडमानवती रमणाङ्गके
क्वचन चुम्बनमारभते स्म सा ॥५॥ क्रोधातिशयेन सविषो गलश्चुम्बित इति भावः ॥५॥
........ नागराज भवति प्रत्यार्थविध्वंसनव्यापारे क(कृ)तनिश्चये सति सतां दारिद्मविध्वंसके । तत्कान्ता क्षितिधृत्तटीषु मणिभिर्नीलैः सुरम्यास्वहो कोकान् षट्पदमालिकाश्च कमलान्यालोकयन्त्यद्भुतम् ॥६।।
स्तनात्मकमुखप्रतिबिम्बावलोकनात् यद्वा नीलमणिजनितान्धकारे दिनज्ञानाय कोकसंयोगं षड्पदप्रचारं कमलविकाशं च विलोकयन्तीति भावः ॥६॥
दृष्टोऽयं सरिताम्पतिः प्रियतमे बद्धोऽत्र सेतुर्मया कान्त(न्ता)क्वेति मुहुर्मुहुः सकुतुकं पृष्टे परं विस्मिते । अत्राऽऽसीदयमत्र नाऽत्र किमिति व्यग्रे निजप्रेयसि व्यावृत्त्याऽऽस्यसुधानिधि समभवन्मन्दस्मिता जानकी [७॥
स्वमुखचन्द्रदर्शनाभितजलधिकल्लोलाच्छादितस्य सेतोः प्रकटनाय क(?)मुखवव्यावृत्तिरिति भावः ||
समुद्धतानां दनुजेश्वराणां विमर्दने यस्य चकास्ति धैर्यम् । स श्रीपतिः किं निजनामधेयं
पटुर्जपद्भ्यो नितरां बिभेति ॥८॥ वैकुण्ठे सम्पर्दो भविष्यतीत्याशयेनेति भावः ॥८॥
अन्योन्यं भुजगवराः शङ्करसर्वाङ्गभूषणीभूताः ।
पश्यन्तो वदनानि प्राय: कम्पं भजन्ति को हेतुः ।।९।। नीलकण्ठं विलोक्य केनाऽयं दंशापराधः कृत इति ॥९॥ १. १९०७५ सु.र.भा. ॥
Page #13
--------------------------------------------------------------------------
________________
September-2005
मलयाद्रिसमुद्भूते मन्दं चलति मारुते ।
निनिन्द वानरान् काचित्कामिनी यामिनीमुखे ॥१०॥ मलयाद्रिः सेतुबन्धनाय कथमेतैर्न नीत इत्याशयः ॥१०॥
इति भावदशकम् । अथ समस्या:तत्र तावद्वैदिकी
'कामं कामदुधे(घ) धुक्ष्व (धुझ्व) मित्राय वरुणाय च । वयं वीरेश (धीरेण) दानेन सर्वान्कामानशीमहि ॥१॥ तं नमामि महादेवं यत्रियोगादिदं जगत् । कल्पादौ भगवान् धाता यथापूर्वमकल्पयत् ॥२॥ गायका यूयमायात यदि मा गति लिप्सकः । धनदस्य सखा सोऽयमुपास्मै गायता नरः ॥३॥ अधरः किश(स)लयमध्री पद्मौ कुन्दस्य कोरकान् दन्ताः । कः कौ के कं को कान् हसति हसतो हसन्ति हरिणाक्ष्याः ॥४॥ नदीप्रवाहवेगेन प्रोन्मूल्यन्ते महाद्रुमाः । वेतसा नैव बाध्यन्ते अरेदो नामिनो गुणः ॥५॥ न लोपो वर्णानां न हि च परत: प्रत्ययविधिनिपातो नाऽस्त्येव क्षणमपि न भग्नाः प्रकृतयः । गुणो वा वृद्धिर्वा सततमुपकाराय जगतां मनोर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥६॥
१. अत्र 'कामं कामदुधं धुक्ष्व, मित्राय वरुणाय च, सर्वान् कामानशीमहि' इति च
समस्या-इति सु.र.भा. ॥ २. १८१/२ सु.र.भा. ॥ ३. वचिदपि इति सु.र.भा. ॥ ४. १०६/१५३ सु.र.मा. ॥
Page #14
--------------------------------------------------------------------------
________________
60
अनुसन्धान ३३
'सर्वस्य द्वे सुमतिकुमती सम्पदापत्तिहेतोवृद्धो यूना सह परिचयात् त्यज्यते कामिनीभिः । एको गोत्रे स भवति पुमान् यः कुटुम्बं बित्ति
स्त्री पुम्वच्च प्रभवति यदा तस्य गेहं विनष्टम् ॥७॥ अथ पादत्रयरूपारामं लक्ष(क्ष्म)मपूर्वजं रघुवरं सीतापति सुन्दरं
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नाऽऽलिङ्गितम् । वातघ्नं कफनाशनं कृमिहरं दुर्गन्धनिर्नाशनं · ताम्बूलं न तु येन लक्षितमसौ वातात्मजो दृष्टवान् ॥१॥ असंभृतं मण्डनमङ्गयष्टे
रनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं
*सरस्वती श्रीललना नवीना ||२|| अथ श्लैषा(श्लेषाः)
घनबालमनोहारि सुमनोभिनिषेवितम् । बहुधा तु लसत्कान्ति पुस्तकं मस्तकायते ॥१॥ उन्मीलत्तिलकं काऽपि (वाऽपि) क्वचित् प्रस्फुरितालकम् । क्वचित् पत्रावलीकीर्ण(ण) स्त्रीमुखं पर्वतोपमम् ॥२॥ . गोलब्धजन्मा मधुरः शिखिप्रीतिविवर्द्धनः । उन्मीलदर्जुनच्छायो नवनीतायते गिरिः ॥३॥ कलानिधिकरस्पर्शात् प्रसत्रोल्लासितारका । बिभ्राणाम्बरमानीलं कामिनी यामिनीयते ||४||
१. सर्वस्य द्वे सुमतिकुमती सम्पदापत्तिहेतू, एको गोत्रे प्रभवति पुमान् यः कुटुम्बं
बिभर्ति । वृद्धो यूना सह परिचयात् त्यज्यते कामिनीभिः, स्त्रीपुंवच्च प्रभवति
यदा तद्धि गेहं विनष्टम् ।। इति चत्वारि पाणिनेः सूत्राणि समस्या-इति सु.र.भा. || २. बाल्यात् परं साधु वयः प्रपेदे - इति सु.र.भा. || ३. २५५/२० सु.र.भा. ।
Page #15
--------------------------------------------------------------------------
________________
September-2005
61
मणिभिरष्टभिर्युक्ते प्रणमत्या(मन्त्या) हरान्तिके । सुकेश्या कबरीभारे सन्त्यष्टौ हरमूर्तय: ॥५॥ ईदृशे मलिने मुण्डे सर्वधर्मबहिष्कृते । पतिता मस्तके नो चेत् विद्युत्काकेन भक्षिता ||६|| श्रुत्वा सागरबन्धनं दशशिरः(रा:) सर्वैर्मुखैरेकधा'
भूयः पृच्छति वित्तिकं च चकितो भीत्याकुलः सम्भ्रमात् । बद्धः सत्यमपांनिर्धेिस्सलिलधिः कीलालधिस्तोयधिः
पाथोधिर्जलधिः पयोधिरुदधिः वारांनिधिर्वारिधिः ॥७॥ इन्दुरिणरत्नमश्वतिलकः श्रीपारिजातस्सुधा
वर्गस्वर्गपरिच्छदः समजनि त्वत:(त्तः) सुरैः प्रार्थितात् । धिग्लोकं तव यस्तथाऽपि तनुते तोयाङ्कनामावली
मम्भोधिर्जलधि: पयोधिरुदधि(धि:) वारांनिधिर्वारिधिः ॥८॥ कान्ते ! त्वत्कुचचूचुका तदुपरि स्मेरा च हारावली
त्वद्वक्त्रं तरुणाङ्गि ! बिम्बितमनुच्छायालताश्यामताम् । त्वं सर्वाङ्गमनोरमे त्रिजगतां बध्नासि वृष्ट्या यतो - जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥९॥ ज्ञेयं दुर्जनमानसं परिणतिश्यामं न मैत्रीस्थिरं
भूयोऽपि स्फुटमस्फुटं च गुणवत्सन्दूषणं(णे?) सङ्गतः (तम्) । संरोधि व्रणमण्डलस्य सहसा नित्यं परेषां बुधे जं०.... [ जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्] ॥१०॥ कैषा भूषा नवीना तव भुजगपते ! भूषयामास शम्भु
भूत्या मन्मौलिमालां सदशनवशतान्नक्षपातान् विजित्य ।
१. एकदा इति सु.र.भा. । २. तूर्णं - इति सु.र.भा. !! ३. वार्तिकान् स चकितो - इति सु.र.भा. || ४. निधिर्जलनिधि:-इति सु.र.भा. ॥
५. १८३/६१ सु.र.भा. ।।
Page #16
--------------------------------------------------------------------------
________________ 62 अनुसन्धान 33 गौर्यामानं ज दृष्टा (?) ....... सङ्ख्यका नित्यमेवं शीर्षाणां चैव वन्ध्यामसनवतिरभूल्लोचनानामशीतिः // 11 // निरङ्के दोषेशे मृगमदकलङ्कं वितनवै प्रियेत्युक्ते वेदौ कृतशिखरबिन्दौ गिरिजया / कर्प(पोर्दश्रीगङ्गाधरहरशिरस्यद्भुतमभूत् धनुःशृङ्गे भृङ्गेस्तदुपरि गिरिस्तत्र जलधिः // 12 // उद्दामार्काशुदीप्यद्दिनमणिमणिभिः भस्मितान्ते समन्तात् वायुव्याधूयमानज्वलदनलकणाकीर्णधूलिप्रपणे / 'कान्तार(रेड)स्मिन् तृषार्ते मयि पथिक ! भवेत्का(वा)ऽपि पाथोप्यतेना(?) शूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः // 13 // नीपाभट्टस्येतौ // __ये तापं शमयन्ति सङ्गतिभृतां ये दानशृङ्गारिणि(णो) येषां चित्तमतीव निर्मलेमभूद्येषामभानं व्रतम् / ये "सर्वे सुखयन्ति सङ्गतिजनं ते साधवो दुलभा(र्लभाः) गङ्गावज्जल(गज)गण्डवतागनवत् गाङ्गेयवत् गेयवत् // 14 // 5 इति श्रीचित्रकाव्यसंपूर्णम् / संवत 1776 वर्षे प्रथम-आश्वनसित-११, रवौ लिखितममृतपुरमध्ये / श्रीवासुपूज्यप्रसादात् / शुभं भवतु / श्री(श्रि)योऽस्तुं (स्तु) || -- 1. कान्तारेऽस्मिन् नृपात्ते पथि पथिकभवे काऽपि पाथोदसेना सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः - इति सु.र.भा. // 2. 184/74 सु.र.भा. // 3. निर्मलतरं - इति सु.र.भा. / / 4. सर्वान् सुखयन्ति हि प्रतिदिनं - इति सु.र.भा. || 5. 182/48 सु.र.भा. //