________________
अनुसन्धान ३३ अम्बुदा(दास) तेषामाली-पङ्क्तिस्तस्या रुगिव रुक् यस्याऽसौ घनश्याम इत्यर्थः । किम् ? मण्डाशाकरखण्डनः-मण्डाश्चारुणुदियः (श्चाणूरादयः ?) तेषामाशा:इच्छास्तासामोका(माकारः-समूहस्तं खण्डयतीति मण्डाशाकरखण्डन:मल्लेच्छासमूहनाशकर इत्यर्थः । हे क्षीरसागरे आ समन्ताद्भावेन वस्य(स)तीति हे क्षीरावस ! । हे अतुल्य !- नाऽस्ति तुल्यो यस्याऽसौ हे अतुल्य ! किम्० माम् ? सासु(सुं-असवः प्राणास्तैः सह वर्तमानम् । पु० ? अलितडिनिभाङ्गवसन:-अङ्गं न (च) वसनं चाऽङ्गवसने, अलिश्च तडिच्चाऽलितडितो, तयोः निभाऽऽभा, तद्वन्निभा ययोस्तेऽलितडिनिभे अङ्गवसने यस्याऽसौ अलितडिन्निभाङ्गवसनः । पु० ? सारवान्- सारो बलमस्याऽस्तीति सारवान्पालनसमर्थ इत्यर्थः ॥१॥
कोलकृतिरपारेवो मोरोहंसो जलोदरी ।
कंसारिरात्तडीडो-बो वाघ(श्च)लो भूकलोऽवतु ||२|| कंसारि:-श्रीकृष्णः । वो-युष्मान्(न)वतु, बवयोरैक्यं, रक्षतु । कोलकृतिः-कोलस्य रूपं यस्य सः । आ(अ)पारेव:-आ(अ)पारे० संसारेऽवति रक्षति । तथा मोरोहंस:-मा-लक्ष्मीः , तस्याः उराः]-वक्षः, तत्र हंस इव हंसः । तथा जालोदरं-[जलं गृहं यस्याः सः । किम् ? आत्तलील:-आत्ता-अङ्गीकृता लीला-विलासो येन सः । तथा किम् ? वाश्वल:-निश्चये [न] अश्वं लुनातीति(?)। तथा किम् ? भूकल:-भुवं कलयति-उद्धरति । किम् ? कंसारिः ।
पाण्डवानां सभामध्ये दुर्योधनः समागतः ।
तस्मै गां च हिरण्यं च रत्नानि विविधानि च ॥ मह देसु रसं धम्मे तमवसमासंगमागमाहरणे । हरवहुसरणं तं चित्तमोहमवसरउ मे सहसा ॥३॥
१. 'आगताः पाण्डवाः सर्वे दुर्योधनसमीहया' इति सु.र.भा. १९३/१, शार्ङ्गधरपद्धतौ
५३४; यो धनसमीहया आगतस्तस्मै सर्वे पाण्डवाः गां च सुवर्णं च विविधानि रत्नानि च अदुः - इति सु.र.भा. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org