SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ 52 श्रीरुपास्ते कामीशानं कमीशानं च पार्वती । अमुं निगदितं प्रश्नं यो जानाति स पण्डितः ॥७॥ अथ कर्तृगुप्तम् शरदिन्दुकुन्दधवलं नगनिलयरतं मनोहरं देवम् । यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति ||८|| मनः कर्तृपदम् ॥८॥ अथ कर्मगुप्तम् मांसं भुङ्क्ष्व द्विजश्रेष्ठ ! सन्त्यज्याऽखिलसत्क्रियाम् । संदिष्टं ब्रह्मणा पूर्वं द्विजानां गृहमेधिनाम् ॥९॥ मां लक्ष्मीमिति कर्म ||९|| अथ करणगुप्तम् मदमत्तमयूरस्य मलयस्य गिरेस्तटे । सीताविरहसंतप्तं रामं मुहुरमूमुहत् ॥ १०॥ मयूरस्य गिरा कृत्वा इ:- कामो रामममूमुहदित्यन्वयः ॥१०॥ अथ सम्प्रदानगुप्तम् अम्भोरुहमये स्नात्वा वापीपयसि कामिनी 1 ददाति भक्तिसम्पन्ना पुष्पं सौभाग्यकाम्यया ॥ ११॥ अये - कन्दर्पायाऽम्भोरुहं ददातीत्यन्वयः ॥११॥ अथाऽपादानगुसम्- सरसीतोयमुद्धृत्य जनः कन्दर्पकारकम् । पिबत्यम्भोजसुरभि स्वच्छमेकान्तशीतलम् ॥ १२॥ अनुसन्धान ३३ सरसीतः कं - जलमुद्धृत्येति संबन्ध: । सरसीत इत्यपादानम् ॥१२॥ १. श्री: उम् = विष्णुम्, पार्वती अम् = शङ्करम् ॥ ४. 'पुत्रसौभाग्यकाम्यया' इति सु.र.भा. ॥ २. 'नगरपतिनिलयं' इति सु.र.भा. । ५. सु.र.भा. १९४/३१ ॥ ३. सु.र.भा. १९४/२५ ॥ ६. सु.र.भा. १९४/३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229493
Book TitleChitrakavyani
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages16
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size367 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy