________________
52
श्रीरुपास्ते कामीशानं कमीशानं च पार्वती । अमुं निगदितं प्रश्नं यो जानाति स पण्डितः ॥७॥ अथ कर्तृगुप्तम्
शरदिन्दुकुन्दधवलं नगनिलयरतं मनोहरं देवम् । यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति ||८|| मनः कर्तृपदम् ॥८॥
अथ कर्मगुप्तम्
मांसं भुङ्क्ष्व द्विजश्रेष्ठ ! सन्त्यज्याऽखिलसत्क्रियाम् । संदिष्टं ब्रह्मणा पूर्वं द्विजानां गृहमेधिनाम् ॥९॥ मां लक्ष्मीमिति कर्म ||९||
अथ करणगुप्तम्
मदमत्तमयूरस्य मलयस्य गिरेस्तटे ।
सीताविरहसंतप्तं रामं मुहुरमूमुहत् ॥ १०॥
मयूरस्य गिरा कृत्वा इ:- कामो रामममूमुहदित्यन्वयः ॥१०॥
अथ सम्प्रदानगुप्तम्
अम्भोरुहमये स्नात्वा वापीपयसि कामिनी 1
ददाति भक्तिसम्पन्ना पुष्पं सौभाग्यकाम्यया ॥ ११॥ अये - कन्दर्पायाऽम्भोरुहं ददातीत्यन्वयः ॥११॥
अथाऽपादानगुसम्-
सरसीतोयमुद्धृत्य जनः कन्दर्पकारकम् । पिबत्यम्भोजसुरभि स्वच्छमेकान्तशीतलम् ॥ १२॥
अनुसन्धान ३३
सरसीतः कं - जलमुद्धृत्येति संबन्ध: ।
सरसीत इत्यपादानम् ॥१२॥
१. श्री: उम् = विष्णुम्, पार्वती अम् = शङ्करम् ॥ ४. 'पुत्रसौभाग्यकाम्यया' इति सु.र.भा. ॥ २. 'नगरपतिनिलयं' इति सु.र.भा. ।
५. सु.र.भा. १९४/३१ ॥
३. सु.र.भा. १९४/२५ ॥
६. सु.र.भा. १९४/३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org