________________
अनुसन्धान ३३
कर्तृसम्बन्धाधिकरणगुप्तम्- यथा
कावेरीरम्यराजीवविलसद्गन्धबन्धुना ।
मधुमाससमीरेण वर्द्धते कुत्र कस्य का ॥१७॥ कौ-पृथिव्याम्, ए: कामस्य, ईः शोभा । मात्राच्युतकम् -
दशान्तरस्थितान् भावान् का(क)लातीतानपि स्फुटम् ।
कवलज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥ अत्र देशकालकेवलाः ॥१७-२॥ बिन्दुगुप्तम्
यथा 'सत्प्रभवः स्निग्धः सन्मार्गविहितस्थितिः ।
तथा सर्वाश्रय: 'सत्यमय(य)मे वकुलद्रुमः ॥१८-१।। बिन्दुमजाली(मयाली?)
ठिठठठठूठाठटुं ठठ((ठिट्ठ)ठिंठोः ठठुट्ठठीठठिठः । ठठठुठठठिगठुठठाठठा] ठठठीठठठोठठटुंठः ॥ त्रिनयनचूडारत्नं मित्रं सिन्धोः] कुमुद्वतीदयितः । अयमुदयति धुसृणारुणा रमणीवदनोपमश्चन्द्रः ॥
अयं कुमुद्वतीं मुदयतीत्यर्थे बिन्दुच्युतकमपि भवति ।। अथ दीयमानाक्षरम्
सानुजः काननं गत्वा नैकसेयान् जघान कः ।
मध्ये वर्णकृ(त्र)यं दत्त्वा रावणः कीदृशो वद ॥१९॥ राक्षसोत्तमः ॥१९॥ १. "सत्प्रसवः' इति सु.र.भा. ॥ २. अत्राऽनुस्वारत्यागेन 'अयमेव कुलद्रुमः' इति स्थितमर्थात्- अयं पुमान् कुले द्रुम इव
द्रुमो वृक्षः - इति सु.र.भा. ॥ ३. १९५/४ सु.र.भा. ||
४. २९९/११ सु.र.भा. || ५. विकासाधा (निकसाया) अपत्यानि निकसा: (नैकसेया:) राक्षसास्तान् । ६. १९९/२८ सु.र.भा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org