________________
September-2005
अथ हीयमानाक्षरम्
नतनाकिमौलिमणिमण्डलीविभा
भरभासुराङ्घिसरसीरुहासना । तव शर्मणे भवतु भारती भृशं
दृढजाड्यखण्डनदिनेशभाततिः ॥२०-१॥ अत्र मझुभाषिणि( णी) छन्दसि प्रतिपामा(दा)द्याक्षरद्वयपातेन रथोद्धतावृत्तम्, अन्त्याक्षरद्वयपातेन नन्दिनीवृत्तम् ॥२०-१||
गङ्गोपलक्षित उमाहृदयाम्बुजार्को
नित्यं विभाति शशिखण्डशिरोविभूषः । देवस्तु यो विषमनेत्रलसन्मुखश्री:
कल्याणदो भवतु वः सहतादिवर्णः ॥२०-२॥ अथाऽपहुतिः -
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किं मिलतो नहि न हि सखि ! हैमनः पवनः ॥२१-१॥ इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
स्मरसि कि सखि ! कान्तरतोत्सवं नहि धनागमरीतिरुदाहृता ॥२१-२॥२ अथ कथिताऽपहुति:
आदौ श्लोकेऽत्र निर्दिष्टं विजानन्तु महाधियः ।
कस्मात् कस्मिन् समुत्पन्ने सरागं भुवनत्रयम् ॥२२-१।। आत्-कृष्णात्, औ-कामे ॥२२-१॥
पृथ्वीसंबोधनं कीदृक् कविना परिकीर्तितम् ।
केनेदं मोहितं विश्वं प्रायः केनाऽऽप्यते यशः ॥२२-२।।' १. १८६/३ सु.र.भा. . २. १८६/१३ सु.र.भा. ॥ ३. 'कविना' -हे को ! हे पृथ्वि !, इना कामेन, कविना काव्यकर्ता - इति उत्तरः ।
सु.र.भा. ॥ ४. १९६/६ सु.र.भा. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org