SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 56 अनुसन्धान ३३ अथ गतप्रत्यागतम् - यत्वादन्वेषकाग्नाद्या(का ग्राह्या) लेखकैर्मसिमल्लिका ? । घनान्धकारे निःशङ्कं मोदते केन बन्धुकी ॥२३॥ नालिकेरजा ॥२३॥ अथ प्रहेलिका आद्यन्तस्यायिनी नित्यं कमला त्वयि वर्द्धताम् । अमध्यमं च सुकृतं भजस्व वसुधाधिप ! ॥२४-१॥ पङ्कजस्य स्थिती मध्ये सत्यलोकान्तमास्थितः । कल्पानामादिभूतश्च क एष नाः पितामहः ॥२४-२॥ य एवाऽऽदि(दिः) स एवाऽन्त्यो मध्यो भवति मध्यमः । एतावदपि न जानाति स किं पश्यति मानवः ॥२४-३॥ अथाऽऽर्थी प्रहेलिका सदारिमध्याऽपि न वैरयुक्ता नितान्तरक्ताऽपि सितैव नित्यम् । यथोक्तवादिन्यपि नैव दूती का नाम कान्तेति निवेदयाऽऽशु ॥२५॥ अथ दूरान्वयिजाति ज्येष्टो मासोऽनुगा शय्या कम्बलो यस्य शङ्करः । इति स्तात् बाणजन्मेशपिता पुत्रो विनायकः ॥२६-१।। धम्मिलस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्जुन्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥२६-२॥ १. प्रशस्ता मस्मि(सि)रिति मसिमल्लिका-इति प्रतिटिप्पण्याम् ।। २. य एतन्नाभिजानीयात् तृणमात्रं न वेत्ति सः । इति सु.र.भा. ॥ ३. तृणमानं न वेत्ति सः । किं नाम तृणम् ? यवस(सम्) यवसं तृणमर्जुनमित्यमरः । इति प्र.टि. ॥ ४. १८५/१८ सु.र.भा. ॥ ५. 'सारिका' इति सु.र.भा. ॥ ६. १८५/३२ सु.र.भा. || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229493
Book TitleChitrakavyani
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages16
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size367 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy