________________
September-2005
61
मणिभिरष्टभिर्युक्ते प्रणमत्या(मन्त्या) हरान्तिके । सुकेश्या कबरीभारे सन्त्यष्टौ हरमूर्तय: ॥५॥ ईदृशे मलिने मुण्डे सर्वधर्मबहिष्कृते । पतिता मस्तके नो चेत् विद्युत्काकेन भक्षिता ||६|| श्रुत्वा सागरबन्धनं दशशिरः(रा:) सर्वैर्मुखैरेकधा'
भूयः पृच्छति वित्तिकं च चकितो भीत्याकुलः सम्भ्रमात् । बद्धः सत्यमपांनिर्धेिस्सलिलधिः कीलालधिस्तोयधिः
पाथोधिर्जलधिः पयोधिरुदधिः वारांनिधिर्वारिधिः ॥७॥ इन्दुरिणरत्नमश्वतिलकः श्रीपारिजातस्सुधा
वर्गस्वर्गपरिच्छदः समजनि त्वत:(त्तः) सुरैः प्रार्थितात् । धिग्लोकं तव यस्तथाऽपि तनुते तोयाङ्कनामावली
मम्भोधिर्जलधि: पयोधिरुदधि(धि:) वारांनिधिर्वारिधिः ॥८॥ कान्ते ! त्वत्कुचचूचुका तदुपरि स्मेरा च हारावली
त्वद्वक्त्रं तरुणाङ्गि ! बिम्बितमनुच्छायालताश्यामताम् । त्वं सर्वाङ्गमनोरमे त्रिजगतां बध्नासि वृष्ट्या यतो - जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥९॥ ज्ञेयं दुर्जनमानसं परिणतिश्यामं न मैत्रीस्थिरं
भूयोऽपि स्फुटमस्फुटं च गुणवत्सन्दूषणं(णे?) सङ्गतः (तम्) । संरोधि व्रणमण्डलस्य सहसा नित्यं परेषां बुधे जं०.... [ जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्] ॥१०॥ कैषा भूषा नवीना तव भुजगपते ! भूषयामास शम्भु
भूत्या मन्मौलिमालां सदशनवशतान्नक्षपातान् विजित्य ।
१. एकदा इति सु.र.भा. । २. तूर्णं - इति सु.र.भा. !! ३. वार्तिकान् स चकितो - इति सु.र.भा. || ४. निधिर्जलनिधि:-इति सु.र.भा. ॥
५. १८३/६१ सु.र.भा. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org