Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
September-2005
चित्र विचित्रभेदं यत्कविभिर्बहुधोदितम् ।
ग्रन्थगौरवभीत्यैव मयेह तदुपेक्षितम् ॥२६-३|| इति श्रीभट्टगोविन्दसङ्ग्रहीते 'सभ्याभरणे' चित्रमरीचिः । अथ भावगूढम्
'काचित्कान्ता रमणसविधे प्रेषयन्ती करण्डं प्रायोवस्थाकलितमलिख व्यालमस्योपरिष्यात् । गौरीनाथं तदनु चकिता चम्पकं गात्रहेतून्
पृच्छत्यार्यान् निपुणधिषणान् मल्लिनाथ: कवीन्द्रः ॥१॥ करण्डस्थपुष्परक्षार्थमेतानलिखदिति भावः ॥१॥
विक्रीय विस्पृष्टमुखेन बाला मालाकृत: कैरवकोरकाणि । विक्रेतुकामा विकचाम्बुजानि
चेलाञ्चलेनाऽऽननमावृणोति ॥२॥ विकसितकमलानां मुखचन्द्रदर्शनात् सङ्कोचनभीत्येति भावः ॥२॥
काचित् प्रयुक्ता खलु देवरेण गृहाण शस्त्र व्रज राजमार्गम् । विलोक्य शय्यामिति लज्जिता सा
स्मेरानना नम्रमुखीबभूव ॥३॥ शय्यायां तस्याः पुंभावचिह्न दवा(दृष्ट्वा) देवरेणोपहसितेति भावः ॥३॥
प्राचीनस्मृतविरहव्यथातिभीत: काकुत्स्थः कृतकुरकु)तुकाक्षिनिमीललीलः । संपूर्ण(णे)शशिनि चिराय लग्नदृष्टेः
प्रेयस्याः स्थगयति लोचने कराभ्याम् ॥४॥ कनकमृगवत् मृगाङ्कमृगमपि याचयिष्यतीति भावः ॥४|| १. काचिद् बाला रमणवसतिं प्रेषयन्ती करण्डं, सा तन्मूले सभयमलिखत
व्यालमस्योपरिष्टात्। गौरीनाथं पवनतनयं चम्पकं चाऽस्य भावं, पृच्छत्यार्यान् प्रति कथमिदं मल्लिनाथः कवीन्द्रः ॥ इति सु.र.भा. १९१८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16