Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अनुसन्धान ३३ कर्तृसम्बन्धाधिकरणगुप्तम्- यथा कावेरीरम्यराजीवविलसद्गन्धबन्धुना । मधुमाससमीरेण वर्द्धते कुत्र कस्य का ॥१७॥ कौ-पृथिव्याम्, ए: कामस्य, ईः शोभा । मात्राच्युतकम् - दशान्तरस्थितान् भावान् का(क)लातीतानपि स्फुटम् । कवलज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥ अत्र देशकालकेवलाः ॥१७-२॥ बिन्दुगुप्तम् यथा 'सत्प्रभवः स्निग्धः सन्मार्गविहितस्थितिः । तथा सर्वाश्रय: 'सत्यमय(य)मे वकुलद्रुमः ॥१८-१।। बिन्दुमजाली(मयाली?) ठिठठठठूठाठटुं ठठ((ठिट्ठ)ठिंठोः ठठुट्ठठीठठिठः । ठठठुठठठिगठुठठाठठा] ठठठीठठठोठठटुंठः ॥ त्रिनयनचूडारत्नं मित्रं सिन्धोः] कुमुद्वतीदयितः । अयमुदयति धुसृणारुणा रमणीवदनोपमश्चन्द्रः ॥ अयं कुमुद्वतीं मुदयतीत्यर्थे बिन्दुच्युतकमपि भवति ।। अथ दीयमानाक्षरम् सानुजः काननं गत्वा नैकसेयान् जघान कः । मध्ये वर्णकृ(त्र)यं दत्त्वा रावणः कीदृशो वद ॥१९॥ राक्षसोत्तमः ॥१९॥ १. "सत्प्रसवः' इति सु.र.भा. ॥ २. अत्राऽनुस्वारत्यागेन 'अयमेव कुलद्रुमः' इति स्थितमर्थात्- अयं पुमान् कुले द्रुम इव द्रुमो वृक्षः - इति सु.र.भा. ॥ ३. १९५/४ सु.र.भा. || ४. २९९/११ सु.र.भा. || ५. विकासाधा (निकसाया) अपत्यानि निकसा: (नैकसेया:) राक्षसास्तान् । ६. १९९/२८ सु.र.भा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16