Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ September-2005 [अथा सम्बन्धगुप्तम् बालया पृथिवीपाल ! व्या(व्य)लोक्यत तयाननम् । तत: प्रभृति तां निन्ये स्मरः स्वशरवेध्यताम् ॥१३॥ ते आननमिति सम्बन्धः ॥१३॥ [अथाऽJधिकरणगुप्तम् या कटाक्षछटापातैः पवित्रयति मानवम् । एकान्ते रेपिर्तप्रीतिरस्मि सा कमलालया ॥१४॥ ए-विष्णुरूपिणि कान्ते इत्यधिकरणम् ॥१४॥ अथ सम्बोधनगुप्तम्- धर्मदासस्य हारकेयूररत्नानि धनानि विविधानि च । ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम् ॥१५॥ ब्राह्मणेति सम्बोधनम् ॥१५॥ अथ क्रियागुप्तम् दामोदरधृताशेषजगत्त्रय ! जनार्दनः(न!) । संसारापारपाथोधिमज्जनप्रभवं भयम् ॥१६-१॥ मा दा इति क्रिया ॥१६-१|| पामारोगाभिभूतस्य श्लेष्मव्यौधिमयस्य च । . यदि तें जीवितस्येच्छा तदा भोः) शीतलं जलम् ॥१६-२॥ शीतलं जलं मा पा इति क्रिया ॥१६-२|| कान्तया कान्तसंयोगे किमकारि नवोढया । अत्रापि कथितं श्लोके यो जानाति स पण्डितः ॥१६-३।। अत्रापीति क्रिया ॥१६-३॥ १. 'रोपितप्रीति०' इति सु.र.भा. ॥ २. सु.र.भा. १९४/३८ ॥ ३. '०व्याधिनिपीडित ! इति सु.र.भा. ॥ ४. सु.र.भा. १९४/१७; जल्हणस्य सूक्तिमुक्तावल्याम्-९८-१ ॥ ५. १९३/७ सु.र.भा. || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16