Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
यथाविषं यथाशस्त्रं यथाग्निर शनि यथा । तथौषधमविज्ञातं विनात ममृतं यथा ॥
नामरूपज्ञमात्राणामननादीनां तत्त्ववित्त्वभिषक्त्वभिवानि न भवन्ति । एवं वने ऽज पादीनां नाम रूपजत्ववचनेन नामरूपानभिज्ञानात् पुरुषाणां तै र्नामरूप परिचयो विधेय इति ज्ञापितं भवति ।
उक्तञ्च सुश्रुते । भूमिप्रविभागविज्ञानीये ऽध्या ये सूत्रस्थाने। गोपालास्तापसा व्याधा ये चान्ये वनचारिणः। मलाहाराश्च ये तेभ्यो भेषजव्यक्ति रिष्यते इति। . ननु द्रव्यं खप्रभावादेव व्याधि शमयेत् कथमोषधीनां तत्त्वादिकं ज्ञातव्यं भवतीत्याकाङ्गाया मोषधीनां तत्त्वाद्यनभिज्ञायां दोषमाह । _ यथाविषमित्यादि । विषशस्त्राग्निववाणां सद्यः प्राणहरत्वेन दृष्टान्तवाहुल्य शिष्टानां सुखबोधार्थ स्तुत्यर्थच। औषधमोषधीमयं तत्कल्पित विकारं वा। औषधी पदं जाङ्गमौद्भिदपार्थिवद्रव्यवाचकं बोध्यम् । अविज्ञातं विज्ञातमित्यभयत्र नामरूपगुणकर्मभिरिति शेषः। अमतमिति जरामरणादिहरत्वेन दृष्टान्तः । तत्र हेतुमाह।
For Private And Personal Use Only

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385