Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 11
________________ भुवनभानवीयमहाकाव्ये न्यायविशारद-विशदता * कार्यार्थिना प्रतिबन्धकापगमे तु यतितव्यम्, कारणदोषोद्भावनवैयर्थ्यादिति न्यायमुद्रा ॥ पृ.१९ ॥ हितोपाये प्रयत्नतः प्रवृत्तौ हि मुमुक्षुत्वसिद्धिरिति ।। पृ.२३ ॥ चारित्रार्थी गुरुं न मुञ्चेत्, अन्यथा तत्त्वाऽयोगात्, कारणत्यागस्य परमार्थतः कार्यत्यागरूपत्वात् ॥ पृ.२७।। तद्विषयबहुमानभाव एव तत्प्रसादः ॥ पृ.२७ ।। गुरुबहुमानविरहिण उत्कृष्टोपकारकृत्त्वेन परमबहुमानविषयेऽपि मध्यस्थस्य विरुद्धस्य वा कुतश्चरणपरिणामादियोगः? निर्हेतुकत्वप्रसङ्गात् ॥ पृ.२७ ।। मुमुक्षूणामन्यत्र मोक्षमाशंसाविरहः, तत्त्वादेव ।। पृ.२९ ।। * भावरजोहरणमेव (कर्मरजोऽपनयनात्) तत्त्वतो रजोहरणम्, इतरत्तु सम्मार्जनी, तुल्यकार्यत्वात्, तथालोकव्यपदेशदर्शनात्, अयं जनोऽहमेवेतिवत् ।। पृ.४४ ॥ स्वाभिप्रायेण शुभयोगस्याऽप्याज्ञानिरपेक्षत्वेनाऽफलत्वमित्याशयः ।। पृ.४७ ।। ___ तत्त्वदृष्टेस्तु तात्त्विकसुख एवाऽऽग्रहः, अनुन्मत्तवत् ॥ पृ.४८ ॥ मरणादिदुःखभीतस्य न किञ्चिदपि दुष्करम्, तथात्वादेव, तैलपात्रधरवत् ॥ पृ.५० ॥ गुरौ छद्मस्थत्वदर्शनं तु छद्मदर्शनपूर्वकत्वात् शिष्याऽनय, अनन्तसंसारहेतुभावात्, तत्तत्पूर्वकता तु विशेषणग्रहणमन्तरेण विशिष्टबुद्ध्यनुदयात् ।। पृ.५२ ॥ भावानुष्ठानमन्तरेण मुक्तयनुपपत्तेः, ततो नियतोपपत्तेश्च, न ह्युपाय उपेयव्यभिचारी, तत्त्वानुपपत्तेरित्यालोचनीयं पटुप्रतिभया ॥ पृ.१०२ ॥ परिणामविशुद्धेश्च प्रायः प्रवृत्त्यनुपातित्वात् ॥ पृ.११४ ॥ अविज्ञातेऽर्थे तद्वति तत्प्रयुक्तभावाभिव्यक्तिविरहात् ।। पृ.११७ ॥ * बालजीवानां निरपेक्षधर्माऽसम्भवात्, तन्निषेधे सर्वथा तदुच्छेदापत्तेः, न हि प्रभूताऽभ्यासमन्तरेण निरपेक्षधर्मसिद्धिः प्रायेण, शुद्धाभ्यासस्याऽपि प्रभूतजन्मसाधनालभ्यवात् ।। पृ.१२९।।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 252