Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir e दशदृष्टान्ततोऽतीव दुर्लभोनुभवोमहान् प्राप्यस्वाऽऽत्मा भवेत् सिद्धो, दयादिधर्मसाधनैः ॥ २०२॥ इति विज्ञाय भोभव्या, दयां कुर्वन्तु भावतः प्रभुसग्मनुष्याणां हिंसां त्यजन्तु मानवाः ॥ २०३ ॥ अतिपापिमनुष्योऽपि, सम्यग्दृष्ट्या/िलाभतः इहैवमोक्षमायाति त्यक्त्वा हिंसादिकं क्षणम् ॥ २०४ ॥ अतो मनुष्यधातात्त्वं, विरम कोट्युपायतः आत्मज्ञानं मनुष्येभ्यो, देयं हिंसानिवारकम् || २०५ || कोटिकोटिमहोपायै, मनुष्य संघरक्षणम् कर्त्तव्यं शिक्षणं देय, महिंसाचारवर्धकम् ॥ २०६ ॥ अहिंसाचारतः शान्ति, देशेखण्डे प्रजासु च राज्येषु भवति स्पष्टा, नान्योपाया भुवस्तले ॥ २०७॥ इति निश्चित्य सिद्धान्तं सर्वखण्डस्थमानवाः दयाचारे विचारैश्च प्रवर्तन्ते स्वभावतः ॥ २०८ ॥ आत्मन्येव सुखं सत्यं, निश्चित्य भव्यमानवाः बाह्यभोगाप्तये हिंसां कुर्वन्तु नैव सज्जनाः ॥ २०९ ॥ बाह्यभोगे सुखभ्रान्ति, त्यक्त्वा सत्यसुखाये आत्मन्येव स्थिरीय स्वाऽऽत्मानन्दरसी भव || २१०|| , , स्वस्वधर्मस्य सत्यत्वं कथ्यते सर्वधर्मिभिः किन्तु न सत्यत्व, महिंसाधर्ममन्तरा । २११ ॥ ब्रह्मचर्यमहिंसैव, परब्रह्मप्रदायकम् द्रव्यतोभावतोब्रह्म, - चर्यशक्तिप्रदायकम् ॥ २१२ दुःखिलोकदयाकार्या, दुःखनाशनकर्मभिः औषधालयसंस्थानं, कार्यमुपाश्रयादिकम् ॥ २१३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130