________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
e
दशदृष्टान्ततोऽतीव दुर्लभोनुभवोमहान् प्राप्यस्वाऽऽत्मा भवेत् सिद्धो, दयादिधर्मसाधनैः ॥ २०२॥ इति विज्ञाय भोभव्या, दयां कुर्वन्तु भावतः प्रभुसग्मनुष्याणां हिंसां त्यजन्तु मानवाः ॥ २०३ ॥ अतिपापिमनुष्योऽपि, सम्यग्दृष्ट्या/िलाभतः इहैवमोक्षमायाति त्यक्त्वा हिंसादिकं क्षणम् ॥ २०४ ॥ अतो मनुष्यधातात्त्वं, विरम कोट्युपायतः आत्मज्ञानं मनुष्येभ्यो, देयं हिंसानिवारकम् || २०५ || कोटिकोटिमहोपायै, मनुष्य संघरक्षणम् कर्त्तव्यं शिक्षणं देय, महिंसाचारवर्धकम् ॥ २०६ ॥ अहिंसाचारतः शान्ति, देशेखण्डे प्रजासु च राज्येषु भवति स्पष्टा, नान्योपाया भुवस्तले ॥ २०७॥ इति निश्चित्य सिद्धान्तं सर्वखण्डस्थमानवाः दयाचारे विचारैश्च प्रवर्तन्ते स्वभावतः ॥ २०८ ॥ आत्मन्येव सुखं सत्यं, निश्चित्य भव्यमानवाः बाह्यभोगाप्तये हिंसां कुर्वन्तु नैव सज्जनाः ॥ २०९ ॥ बाह्यभोगे सुखभ्रान्ति, त्यक्त्वा सत्यसुखाये आत्मन्येव स्थिरीय स्वाऽऽत्मानन्दरसी भव || २१०||
,
,
स्वस्वधर्मस्य सत्यत्वं कथ्यते सर्वधर्मिभिः किन्तु न सत्यत्व, महिंसाधर्ममन्तरा । २११ ॥ ब्रह्मचर्यमहिंसैव, परब्रह्मप्रदायकम् द्रव्यतोभावतोब्रह्म, - चर्यशक्तिप्रदायकम् ॥ २१२ दुःखिलोकदयाकार्या, दुःखनाशनकर्मभिः औषधालयसंस्थानं, कार्यमुपाश्रयादिकम् ॥ २१३॥
For Private And Personal Use Only